वसन्तपञ्चमीमहोत्सवस्य पुण्यपर्वणि परमार्थवैदिकाश्रमगुरुकुले भव्यं योगप्रदर्शनम्। विधायकखण्डूरी महोदया अवदत् यत् सर्वकार: सुदृढपदं ग्रहीष्यति।
वार्ताहरः- कुलदीपमैन्दोला।कोटद्वारं। वसन्तपञ्चम्याः पुण्यसंदर्भे ई-टेक्नोमाइण्ड-सार्थक- योगशालाद्वारा वैदिकाश्रमगुरुकुले विद्यार्थिनां कृते कलाकौशल-योगासनस्य उत्कृष्टं प्रदर्शनं कृतम्। अस्मिन् विशेषे योगकार्यक्रमे छात्राः स्वीयं लाघवं, समत्वं, शारीरिकं कौशलं च अद्भुतरूपेण प्रदर्शितवन्तः, येन उपस्थिताः दर्शकाः विस्मिताः अभवन्।कार्यक्रमे सार्थकः कण्डवालः, ईशानवी कण्डवाल:, अञ्जलि: नेगी, संस्कृति: गुंसै, अवनिनेगी, अग्रिमा नेगी, द्विवेदी च स्वीयं योगप्रत्यासां प्रदर्शितवन्तः। छात्रैः सूर्यनमस्कारः, वृश्चिकासनम्, शीर्षासनम्, धनुरासनम्, चक्रासनम्, तितिभासनम्, मयूरासनं च […]
Swipe left to go to next post











