षष्ठीपूजा
सूर्य-षष्ठी पूजा कार्तिकमासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ भवति । प्रकृतेः षष्ठमांशयुक्तत्वात् षष्ठी-देवी बालकानां रक्षिका दीर्घायुदायिका च मन्यते । प्रतिमासं शुक्लपक्षस्य षष्ठ्यां तिथौ देवसेना-देव्याः पूजा तु भवति एव किन्तु कार्तिकशुक्लषष्ठ्याम् अस्याः प्रमुखोत्सवः आचर्यते । उत्तरप्रदेशराज्यस्य पूर्वभागे, बिहारराज्ये च अयम् उत्सवः विशेषरूपेण आचर्यते । अन्येषु प्रदेशेषु अयम् उत्सवः विभिन्नपद्धत्या आचर्यते । सामान्यतया नवजातस्य जन्मदिनात् षष्ठे दिने षष्ठी-पूजा भवति […]
Swipe left to go to next post











