धारणाद् धर्ममित्याहुः

मार्कण्डेय शारदेयः (पटना, बिहारस्थः)

को धर्मः, कोऽधर्म इति ज्ञानं कठिनम्। अतः ‘धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः’(महाभारतम् 3.313.117) इत्युचितम्। यद्यपि धर्मस्य अनेकाः परिभाषा, परन्तु वृद्धसेवा एव सुपथम्। उदाहरणार्थं सत्यं सदा धर्मः, असत्यं सदा अधर्मः। तथापि कदाचित् सत्यात् परम् असत्यम् अपि धर्मः। धर्मविषये श्रीकृष्णः अर्जुनं कर्णपर्वणि कथयति-
‘धारणाद् धर्ममित्याहुः धर्मो धारयते प्रजाः।
यत् स्याद् धारण- संयुक्तं स धर्म इति निश्चयः
’।। (8.69.58)
अस्य आशयः न पूजा, न जपः, न च तपः। आशयोऽस्य यत् एषा जीवन-पद्धति, येन जीवनं सुखमयं संस्कृतं च स्यात्। यथासमयं जागरणम्, यथासमयं शयनम्, यथासमयं स्नानं भोजनं शरीर-शोधनम् आत्मदर्शनम्, सृष्ट्याः आत्मनि, सृष्ट्याम् आत्मानं दर्शनञ्च। सम्भवतः एतादृशानि कर्माणि एव धर्मः। एषां कर्मणां पाठ्यक्रमवत् सुचिन्तिता, सुशोधिता, स्वयम् आचरिता पद्धतिः एव धर्मः, नान्यत्।
सदाचारः सताम् आचारः। अस्माकं पूर्वजैः यैः यैः कार्यैः आत्मनः संसारस्य समस्तानां जड-चेतनानां च कृते उपयुक्तम् अनुभूतम्, तदेव कृत्यं, तदेवाचारः। अन्यथा दुराचारः कदाचारो वा। सुकृत्यानि कुकृत्यानि अपि न तैः निर्मितानि, अपितु अनुभूतानि केवलम्। तानि तु प्रकृत्याः जातानि एव। यथा विषनिर्धारणे, औषध-निर्धारणे वा प्रकृतिविरुद्धे प्रकृति-सान्निध्ये जीवनगतिः अनुभव-सिद्धा। आम्, परस्पर-विरुद्धैः रससंयोगेन घटकेन का हानिः, को लाभः इत्यपि सिद्धिः एव, न निर्मितिः। अतः संसारे ये सूक्ष्माणि स्थूलानि च व्याप्तानि, तेषां गुणधर्मः भवति। तेषां सेवनं हितकरम् अहितकरम् इति प्रकृत्यामेव व्याप्तिः। अतः किं करणीयम्, किं न करणीयम् इति वृद्धोपदेशः केवलं वस्तुना वास्तविकता योज्या एव मान्या।अतएव सदाचारस्य धारणं धर्मः। अनेनैव सृष्टिः अद्यापि समृद्धा, अनागतेऽपि मनोहरा भविष्यति।
अस्तु, प्रसङ्गोऽयं यत् कर्णेन युध्यमानः शिथिलो युधिष्ठिरः शिविरम् आगत्य विश्रामे स्थितवान्। तत्समये युद्धभारं भीमाय दत्त्वा तं द्रष्टुकामः अर्जुनः श्रीकृष्णेन सह आगतः। न क्षयं गते कर्णे भीमसेनोपरि समरभारं ज्ञात्वा धर्मराजः क्रुद्धो जातः। धनञ्जयं बहुशः अभर्सयत्। सोऽपि क्रद्धो जातः। यं सदा समादरं कुर्वन् आसीत् तं ज्येष्ठं सहसा हन्तुकामः सः खड्गप्रहाराय उद्यतः। वासुदेवः अरक्षत्, अनन्तरम् अर्जुनं धिक्कृत्य तम् अवदत्-
‘इदानीं पार्थ जानामि न वृद्धाः सेविताः त्वया।
काले न पुरुषव्याघ्र संरम्भं यद् भवानगात्’
।।(8.69.16)
अर्थात्, अद्य मया ज्ञातं यत् त्वया ज्ञानिनः न सेविताः। यदि त्वं वृद्धोपसेवी अभविष्यः, तु असमयं क्रोधं न अकरिष्यः। कारणम्, यो धर्मज्ञः सः एतादृशं कर्म न करोति, यत्त्वं कर्तुम् उद्यतः- ‘न हि धर्म-विभागज्ञः कुर्यादेवं धनञ्जय’ (8.69.17)। त्वं कथयसि यत् युधिष्ठिरेण कथितम्- ‘अन्यस्मै देहि गाण्डीवम् इति मां योऽभिचोदयेत्। भिन्द्याम्यहं तस्य शिर इत्युपांशु- व्रतं मम’ (8.69.9-10)।। अनेन कारणेन प्रतिज्ञा-पालनाय धर्मराजं वध्यं मनुषे, परन्तु मम मतौ त्वं किं कर्तव्यम्, किम् अकर्तव्यमिति न जानासि। अज्ञानवशात् त्वम् आत्मानं धर्मज्ञं मत्वा धर्मं रक्षितुकामः। तव सङ्कल्पः बालकृतः सङ्कल्पः इव।सद्धर्मोऽयम्-
‘प्राणिनाम् अवधः तात सर्वज्यायान् मतो मम।
अनृतां वा वदेद् वाचं न तु हिंस्यात् कथञ्चन
’।।(8.69.23)
अर्थात्, अहिंसा परमो धर्मः। सत्यभाषणं धर्मः, मृषा भाषणम् अधर्मः, तथापि कस्यचित् प्राणरक्षणे मिथ्याभाषणम् आवश्यकं तु तत्र असत्यवादिता अपि धर्मः एव।
अनन्तरं वासुदेवः कौन्तेयम् अर्जुनं धर्मम् उपदिशन् अवदत्-
‘सत्यस्य वचनं साधु न सत्याद् विद्यते परम्।
तत्त्वेनैव सुदुर्ज्ञेयं पश्य सत्यमनुष्ठितम्।।
भवेत् सत्यम् अवक्तव्यं वक्तव्यम् अनृतं भवेत्।
यत्रानृतं भवेत् सत्यं सत्यं चाप्यनृतं भवेत्
’।। (8.69.31-32)
आशयोऽयम्, सत्यभाषणम् उत्तमम्। एतस्मात् न परं किञ्चित्। किन्तु, सत्पुरुषैः आचरितं तत्स्वरूपं दुर्विज्ञेयम्, काठिन्येन ज्ञातव्यमिति। यत्र मिथ्या अपि सत्यवत् मङ्गल-कारिणी, यत्र सत्यम् अपि असत्यवत् अमङ्गलकरम्, तत्र सत्यं न वक्तव्यम्। तत्र असत्यं वक्तव्यम् इति धर्मः।
सः पुनः कस्मिन् काले मृषा मृषा न भवतीति उपदिशन् कथयति-
‘विवाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे।
विप्रस्य चार्थे ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि’।।(8.69.33)
अर्थात्, विवाहे, रत्याम्, प्राणसंकटे, विप्ररक्षायै, सर्वस्वहरणे च; एताः पञ्च अवस्थाः, यासु अनृतं न पापयुक्तं मतम्।
पुनः वासुदेवः कथयति यत् सर्वस्वस्य हरणे तद्रक्षायै मिथ्योक्तिः सत्योक्तिः, तदा सत्योक्तिः नूनं मिथ्या मता-
‘सर्वस्वस्यापहारे तु वक्तव्यम् अनृतं भवेत्।
तत्रानृतं भवेत् सत्यं सत्यं चानृतं भवेत्
’।।(8.69.34)
सः कथयति यत् एतस्याम् आपदि यः मनुते अहं सत्यम् एव वदामि, सत्यं न हि, तु सः बालः, मूर्ख एव- ‘तादृशं पश्यते बालो यस्य सत्यम् अनुष्ठितम्’ (8.69.35)। अतः मुख्याशयोऽयं यत् अलं सत्यानुष्ठानेन, यदि तस्य परिणामः न मङ्गलमयः। एष वै धर्मः।