महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये नैक(NAAC) सज्जायाः शुभारम्भः

उज्जयिनीस्थ-महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये,राष्ट्रियमूल्याङ्कनप्रत्यायनपरिषद(NAAC) इत्यस्य सज्जायाः शुभारम्भः 21-07-2022 तमे दिनाङ्के योगेश्वर-श्रीकृष्णयोगभवने विश्वविद्यालयपरिसरे सञ्जातः । मुख्यवक्तृरूपेण डॉ. कल्पना सिंह उज्जयिनीस्थ शासकीय माधव विज्ञानमहाविद्यालस्य रसायनविभागस्य आचार्या महाविद्यालयस्य NAAC समन्वयिका च यस्या मार्गदर्शने NAAC द्वारा A++ इति ग्रेडिंग प्रदत्तम् । महोदया NAAC इत्यस्य सज्जा विषये बहुविस्तरेण PPT माध्यमेन च गोष्ठीं सम्बोधितवती । विश्वविद्यालयस्य माननीयः कुलपतिः आचार्यः विजयकुमार सी. जी महोदयः अध्यक्षरूपेण गोष्ठ्याम् उपस्थितः आसीत् । अतिथीनां स्वागतं योगाविभागाध्यक्षेण डॉ. उपेन्द्रभार्गवमहोदयेन कृतम् ।
कार्यक्रमस्य शुभारम्भः दीपप्रज्ज्वलनेन, वाग्देव्याः चित्रपटे मालार्पणेन च जातः । ततः विश्वविद्यालयस्य अध्यापकेन श्री अनिरुद्ध त्रिपाठीमहोदयेन वैदिकमङ्गलाचरणम् आचरितम् । तदनु सामूहिकरूपेण विश्वविद्यालयस्य कुलगीतस्य गानमभवत् । कार्यक्रमस्य सञ्चालनं विश्वविद्यालयस्य NAAC समन्वयकेन डॉ. सङ्कल्पमिश्रमहोदयेन, धन्यवादसमर्पणं विश्वविद्यालयस्य कुलसचिवः डॉ. दिलीप सोनीमहोदयेन विहितम् । कार्यक्रमेस्मिन् विश्वविद्यालयस्य समस्तविभागाध्यक्षाः, प्राध्यापकाः, छात्राः, अधिकारिणः, कर्मचारिणाश्च उपस्थिताः आसन् ।