भारते अस्मिन् मासे पञ्चदश दिवसे षट्सप्ततितमः स्वातन्त्र्य-दिवसः पूर्णोत्साहेन देशभक्तिभावनया च आमानितः।
प्रधानमन्त्री नरेन्द्रमोदी एतस्मिन् अवसरे दिल्लीस्थे रक्तदुर्गे राष्ट्रियं त्रिवार्णिकं ध्वजम् उत्तोल्य, ऐतिहासिकस्य एतस्य षट्सप्ततितमस्य स्वातन्त्र्यपर्वणः नेतृत्वं कृतवान्। एतस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रं सम्बोधितवान्, स्वीयसम्बोधने प्रधानमन्त्री समुदीरितवान् यत् न केवलं भारतदेशे, अपितु अखिलेऽपि विश्वे अमृतमहोत्सवात्मकः एषः स्वातन्त्र्यदिवसः पूर्णोत्सोहन आमान्यते। प्रधानमन्त्री नरेन्द्रमोदी स्वीयसम्बोधने स्वातन्त्र्य सङ्ग्रामस्य सर्वान् आपे नायकान् स्मरन् महात्मगान्धि-नेताजी सुभाष चन्द्रबोस-डॉ. बी. आर. अम्बेडकर-विनायक दामोदर सावरकर-सदृशेभ्यः नैकेभ्यः वीर महापुरुषेभ्यः श्रद्धाञ्जलिं समर्पितवान्। प्रधानमन्त्री सबलं प्रत्यपादयत् यत् एषः कालः पञ्चसप्ततिवर्षाणां उपलब्धीनां स्मरणेन सह अमृतकाले एर्तास्मन् सामर्थ्यं सङ्कल्पं शक्त्यः समेत्य सर्वात्मना आगामिषु पञ्चविंशतिवर्षेषु केन्द्रीयकरणस्य विद्यते।
अमृतकाले जय-अनुसन्धानम् इति ध्येयमन्त्रे अवधानं प्रदातव्यं यद्धि लालबहादुरशास्त्रिणः जय जवान, जय किसान इति मन्त्रं अग्रेसारयति। प्रधानमन्त्री समुदीरयत् यत् महिलानां सम्माननं भारतीय विकासस्य महत्त्पूर्णः भागः अस्ति। देशे तादृश्य: परम्परा: विद्यन्ते। याभिः जलवायुपरिर्वतनपराणां समस्यानां प्रतिकारः कर्तुं शक्यते। भारते विविधतायां केत्वं विराजते यद्धि गौरवस्य विषयो वर्तते । इतः प्राक् श्री मोदी राजघाटस्थले राष्ट्रपित्र महात्मगान्धिने श्रद्धाजलि प्रायच्छत्।
प्रधानमन्त्री नरेन्द्रमोदीसकलेभ्यः वैश्विक-नेतृभ्यः धन्यवादं ज्ञापितवान् यैः षट्सप्ततितमं स्वातन्त्र्यदिवसमुपलक्ष्य भारतीयनेतृत्वाय भारतीयजनेभ्यश्च शुभकामना: प्रदत्ताः । वैश्विक नेतॄणां एतस्यां श्रृंखलायां ऑस्ट्रेलियादेशीयः एन्थनी अल्बनीज:, मालदीवदेशीयः राष्ट्रपतिः इब्राहिम मोहम्मद सालिह:, फ्रांसदेशीयः राष्ट्रपति इमैनुएल मैक्रों, भूटानस्य प्रधानमन्त्री लोटे शेरिंग, डोमेनिका राष्ट्रमण्डलस्य प्रधानमन्त्री रुजवेल्ट स्केरिट-इत्येनं समेत्य वैश्विक नेतारः सम्मिलिताः सन्ति। प्रधानमन्त्री समेषां नेतॄणां ट्वीटमाध्यमेन समागतानां शुभाशयानां एकैकं कृत्वा ट्वीट् द्वारा आभारं प्रकटितवान्।











