राष्ट्रपतिना द्रौपदीमुर्मूवर्यया अस्मिन वर्षस्य शिक्षकदिवसावसरे राष्ट्रस्य समेभ्यः शिक्षकेभ्यः वर्धापनानि प्रदत्तानि। दिवसः अयम् शिक्षाविदः प्राक्तनराष्ट्रपतश्च सर्वपल्ली राधाकृष्णन्वर्यस्य जयन्तीति उपलक्ष्य प्रतिवर्ष सेप्टेम्बर मासस्य पंचमदिनांके परिपाल्यते । दिवसावसरे राष्ट्रपतिः द्रौपदीमुर्मूः शिक्षकदिवसावसरे शिक्षकेभ्यः राष्ट्रिय पुरस्कारम् अयच्छत् । । तया राष्ट्रपतिभवने राधाकृष्णन्वर्यस्य प्रतिमायां पुष्पांजलिः अपि समर्पिता । राष्ट्रपतिना स्वकीये सन्देशे प्रोक्तं यत् शिक्षकाः नूतनशोध:, प्रयोग, नवाचाराभियोगैश्च स्वक्षमतादक्षतयोश्च नैरन्तर्येण परिष्काराय यतन्तः सन्ति। राष्ट्रपति द्रौपदीमुर्मू उक्तवती यत् मातृभाषया प्रदत्ता शिक्षा विद्यार्थिषु विज्ञान-साहित्य- सामाजिकविज्ञानानां क्षेत्रेषु प्रतिभाया: विकासस्य आधारः वर्तते। नूतनशिक्षानीतौ च विषयेऽस्मिन् विशेषतया ध्यानं प्रदत्तमस्ति । शिक्षकदिवसावसरे नवदिल्ल्यां समायोजिते समारोहे राष्ट्रपतिना समग्रतः राष्ट्रतः सुचित्य समागतेभ्यः षड्चत्वारिंशत् शिक्षकेभ्यः राष्ट्रियपुरस्काराः प्रदत्ताः । राष्ट्रपतिना उक्तं यत वर्तमानसमये ज्ञानाधारिता अर्थव्यवस्था अनुसंधाननवाचाराभ्यां संचाल्यते। शिक्षकाः जिज्ञासून् छात्रान् प्रोत्साहयेयुः । तयोक्तं यत् शिक्षक: भारतीयशिक्षायाः जीवनशक्ति: अस्ति । प्रायशः सप्तनवतिलक्षशिक्षकाः पंचदश- लक्षाधिकेषु विद्यालयेषु षड्विंशतिकोटितोऽपि अधिकेभ्यः छात्रेभ्य: शिक्षां यच्छन्तः सन्ति। राष्ट्रपतिना स्वकीया: शिक्षकाः अपि स्मृताः, यै: विपरीतपरिस्थितावपि छात्राः अध्यापिताः । तया उक्तं यत् विद्यालयीया शिक्षा एव उच्चशिक्षायाः आधारः वर्तते ।
विश्वविद्यालय-अनुदान-आयोग: शिक्षकदिवसावसरे त्रीणि शोधानुदानानि द्वयोश्च फैलोशिप इति अध्येतृवृत्त्योः योजनयोः शुभारम्भं अकरोत् । यासु एकाकीभ्यः पुत्रीभ्यः सावित्रीबाई ज्योतिराव-फुले-वृत्तिः अथ च डॉ. राधाकृष्णन् यूजीसी उत्तरविद्यावारिधिवृत्तिः सम्मिलितौ स्तः।











