प्रधानमन्त्री श्रीनरेन्द्रमोदी शंघाई सहयोग-सङ्घटनस्य सम्मेलने भागं ग्रहीतुं दिनद्वयस्य यात्रायाम् अस्ति। सः अद्य सायंकाले उज्बेकिस्तानस्य समरकंदंप्राप्स्यति। तत्पूर्व प्रधानमन्त्री नरेन्द्र मोदी स्व-प्रस्थानवक्तव्ये उक्तवान् यत् सः शंघाई सहयोग-सङ्घटनस्य विस्ताराय सामयिक क्षेत्रीय अंतरराष्ट्रिय विषयानां विमर्शनाय तथा संघटनस्य सहयोगिदेशानां मध्ये पारस्परिक लाभदायक सहयोगस्य दृढीकरणाय च प्रतिबद्धः अस्ति। सः उक्तवान् यत् सः समरकंदे उज्बेकिस्तानस्य राष्ट्रपतिना सह मिलतुम् उक्सुकः अस्ति । अस्मिन् समये प्रधानमन्त्री श्रीमोदी अष्टादशोत्तर द्विसहस्रतमे वर्षे राष्ट्रपतेः मिर्जियोयेवस्य भारतयात्रामपि स्मृतवान् । अस्मिन्नवसरे प्रधानमन्त्री अन्यनेतृभिः सहापि द्विपक्षीय मेलनं करिष्यति।
विदेश सचिवः श्रीविनयमोहन क्वात्रा स्व-वक्तव्ये उक्तवान् यत् श्रीमोदी श्वः सम्मेलनस्य प्रतिबंधितसत्रे अथ विस्तारितसत्रे भागंग्रहीष्यति । श्रीक्वात्रा अवदत् यत् अस्मिन् सम्मेलनेस्थानीय-क्षेत्रीय अन्ताराष्ट्रिय विषयैः सह सड्घटनस्य विस्ताराय तथा क्षेत्रेषु सुरक्षास्थितेः सुदृढीकरणाय च विचारविमर्शस्य सम्भावना अस्ति। सः अवदत् यत् क्षेत्रेषु सम्पर्ककल्पने, व्यापार-पर्यटनयोः संवर्धने भारतस्य सहयोगः अस्ति । सममेव सः योजितवान् यत् सम्मेलनेस्मिन् प्रधानमन्त्रिणः भागग्रहणंबहूमहत्वपूर्णमस्ति यतः आरम्भतः एव भारतम् अस्य सम्मेलनेस्मिन् प्रधानमन्त्रिणः भागग्रहणंबहमहत्वपूर्णमस्ति यतः आरम्भतः एव भारतम् अस्य सङ्घटनस्य सहयोगी अस्ति। सः उक्तवान् यत् सम्मेलने समरकंद-घोषणा-विषयेअपि च अन्य महत्वपूर्णविषयेषुअन्तिमरुपरेखा-निर्माणस्य संभावना वर्तते ये च विषयाः शंघाई सहयोग सड्घटनस्य सदस्यदेशानां सम्मुखे विचाराधीनाः सन्ति ।
विदेश सचिवः उक्तवान् यत् प्रधानमन्त्री सम्मेलनेतरम् उज्बेकिस्तानस्य राष्ट्रपतिना सह अथ अन्य नेतृभिः सहद्विपक्षीयवार्ता करिष्यति सम्मेलनस्य सत्रद्वयं भविष्यति। प्रथमं तावत् प्रतिबन्धित सत्रं भविष्यति। अस्मिन् सत्रे केवलंसड्घटनस्य सदस्याः एवभागं ग्रहीष्यन्ति । द्वितीयं विस्तारित-सत्रं भविष्यति अस्मिन् विस्तारिते सत्रे पर्यवेक्षकाः आमन्त्रित-विशेष-सदस्याः भागं ग्रहीषय्न्ति। शंघाई सहयोग-सङ्घटनस्य पूर्ण सदस्यत्वानन्तरं भारतदेशः, सड्घटनस्य सर्वेषु कार्येषु, विचार-विमर्शेषुअपि च तेषां परिणामेषु सार्थक सहयोगंयच्छन् अस्ति। क्षेत्रीय आतंकरोधी संरचना सड्घटनस्य एकं महत्वपूर्ण-तन्त्रम् अस्ति। भारतेन गतवर्षस्य अक्टूबरमासे क्षेत्रीय आतंकरोधी संरचनायाः कार्यकारी परिषदः अध्यक्षस्थानम् अलङ्कृतम् आसीत्।
आतंकवादमधिकृत्य कृत-प्रश्नम् उत्तरन् विदेश सचिवः श्रीक्वात्रा उक्तवान् यत् आतंकवादस्य निर्मूलने शंघाई सहयोग-सड्घटनान्तर्गतदेशानां मध्ये मतैक्यं वर्तते। आतंकवादस्य निर्मूलनाय सर्वेषामपि सहयोगः आवश्यकः इति । जी-सप्त देशानां कृते रूसदेशस्य तैलमूल्यस्य अधिकतम सीमामधिकृत्य कृतप्रश्नम् उत्तरन् श्री क्वात्रा भारतम् जी सप्त-देशानां समूहस्य सदस्यराष्ट्र नास्तीति उक्तवान्।











