प्रधानमन्त्री नरेन्द्र मोदी जनेभ्यः कथितवान् बापूवर्यस्य जन्मोत्सवं अथ पर्वोत्सवम् उद्दिश्य जना: वोकल फॉर लोकल अभियानं प्रवर्धयन्तु

प्रधानमन्त्री नरेन्द्र मोदी जनेभ्यः कथितवान् बापूवर्यस्य जन्मोत्सवं अय पर्वोत्सवम् उद्द्यिश्य जना: वोकल फॉर लोकल अभियानं प्रवर्धयन्तु। प्रधानमन्त्री गत सप्ताहे मन की बात कार्यक्रमे जनैः साकं स्वीय विचारान् सम्विभाजयति स्म। तेन कथितं यत् जनैः स्वदेशोत्पादनानि खादी हस्तनिर्मित वस्तूनि अन्यानि चापि स्वदेशे निर्मितानि वस्तूनि अवश्यं क्रेतव्यानि। प्रधानमन्त्री उक्तवान् यत् देशे पर्वोत्सवकालः प्रचलति अथ श्वः नवरात्रेः प्रथमदिवसः अस्ति यदा मातुः शैलपुत्र्याः पूजार्चना विधास्यते । एतादृक् उत्सवैः सहैव समबद्धः अस्ति लोकल फॉर वॉकल संकल्पः । अत्रान्तरे प्रधानमन्त्रिणा प्लास्टिक इति सकृदुपयुज्यमानस्य अभिघट्यपदार्थस्य प्रयोगम् नैव करणार्थ जनाः प्रोक्ताः । तेन कथितं यत् प्लास्टिक निर्मितानि वस्तूनि पर्यावरण प्रदूषयन्ति अतः पर्वकाले एतस्य उपयोगः अस्माभिः न कर्तव्यः ।
प्रधानमन्त्री कथितवान् यत् अद्य दीनदयाल उपाध्याय -वर्यस्य जन्मवर्षपूर्तिः अस्ति, अथ सः महान् मानवतावादी, विचारकः, भारतस्य महान् ‘पुत्रः च आसीत् । श्री मोदी स्वतन्त्रतासेनानि-भगतसिंह वर्यस्य जन्मदिवसम् अपि स्मृतवान् यद्धि आगामिनि सेप्टेम्बर मासिके अष्टाविंशे दिनांके परिपालयिष्यते। चण्डीगढ़ विमान पत्तन स्थलस्य अधुना शहीद भगतसिंहत्वेन नामपरिवर्तनस् अवलम्ब्य प्रधानमन्त्रिणा प्रसन्नता प्रकटिता। सममेव सः उक्तवान् यत् जलवायु परिवर्तनसमस्या जनजीवनाय एका बृहत्तमा समस्या अस्ति, अतः यथा सम्भवं देशस्य समुद्रतटानां स्वच्छलायै अस्माभिः प्रयतितव्यम् अत्रान्तरे मोदिवर्येण सेप्टेम्बर त्रयोविंशति-दिनांके परिपालितः सांकेतिक भाषा-दिवसः संस्मृतः। अथ देशे सांकेतिक भाषां प्रति जागरूकतायाः वर्धनाय तेन बलं प्रदत्तम् ।