भानोः मकर-संक्रान्तेः षण्मासाः उत्तरायणम्

मार्कण्डेय शारदेयः (पटना, बिहारस्थः)

अस्माकं देशे द्विविधाः मासाः विशेषेण प्रचलिताः । चान्द्रमासाः सौरमासाश्च। चान्द्रेषु चैत्रादयः, सौरेषु मेषादयश्च । अनयोः अपि चान्द्रस्य अधिका लोकख्यातिः। किन्तु सौरस्य ज्योतिःशास्त्रीयं महत्त्वम् अधिकम् । अश्विन्यादिषु सप्तविंशति- नक्षत्रेषु चरन् चन्द्रः यदा पूर्णिमायां कस्मिंश्चित् नक्षत्रे गच्छति, तदा तन्नक्षत्र – नाम्ना मासस्य नाम भवति । उदाहरणार्थं यदा पूर्णिमायां नक्षत्रेशः इन्दुः अश्विन्याः भोगं करोति, तु आश्विनमासः, कृत्तिकायाः भोगं करोति, तु कार्तिकमासः। एवमेव द्वादशमासाः । तु सूर्यः अपि अश्विनीतः रेवतीं यावत् सप्तविंशतिषु नक्षत्रेषु चरति एव । किन्तु एतस्य मासगणना राशिषु आधारिता। सामान्यतया इत्थं ज्ञायते यत् यदा दिनकरः मेषं परित्यज्य वृषं राशिं गच्छति, तु वृषसंक्रान्तिः, मिथुनं गच्छति तु मिथुनसंक्रान्तिः इति। एवमेव मेषतः मीनं यावत् सूर्यसंक्रान्त्या द्वादश सौरमासाः । कथितञ्च-

आदित्यराशि- भोगेन सौरोमासः प्रकीर्तितः ।
चन्द्रमसः सर्वे ग्रहाः नक्षत्र – राशिषु विचरन्ति । किन्तु अस्माकं संस्कृत्यां चान्द्र – सौरयोः मासयोः तिथि-व्रतोत्सवादिषु विशिष्टा मान्यता । राशि परिवर्तनं प्रायेण सपाद- दिनद्वये भवति । अनेन कारणेन राश्याधारितं तन्निर्मितानां मासानां नाम न भवति । किन्तु सूर्यस्य राशि परिवर्तनं प्रायः त्रिंशत् दिनपश्चात् भवति, अतः राशिनाम्ना एव सौरमासाः ।
यद्यपि उभयोः माध्यमेन मासर्तु-गणना भवति, तथापि सूर्यसंक्रान्त्या एव ऋतुज्ञानम् अयनज्ञानं च भवति । सामान्यतः शास्त्रमतेन चैत्र वैशाखयोः वसन्तः, ज्येष्ठाषाढयोः ग्रीष्मः, श्रावण-भाद्रपदयोः वर्षा, आश्विन कार्तिकयोः शरत्, मार्गशीर्ष पौषयोः हेमन्तः, माघ-फाल्गुनयोः शिशिरश्चेति । किन्तु; सौरमतेन ऋतुनिर्धारणम् एव मुख्यम्। सौरमतम् एतस्मिन् श्लोकद्वये द्रष्टव्यम्-
मीन – मेषगते सूर्ये वसन्तः परिकीर्तितः ।
वृषभ मिथुने ग्रीष्मो वर्षा सिंहेऽथ कर्कटे । ।
कन्यायां च तुलायां च शरदृतुः उदाहृतः ।
हेमन्तो वृश्चिक- द्वन्द्वे शिशिरो मृग – कुम्भयोः । ।

अतः मीन – मेषयोः वसन्तः, वृष-मिथुनयोः ग्रीष्मः, कर्क – सिंहयोः वर्षा, कन्या- तुलयोः शरत्, वृश्चिक – धनुषोः हेमन्तः, मकर – कुम्भयोः शिशिरश्च । सूर्यसिद्धान्तः कथयति-
भानोः मकर-संक्रान्तेः षण्मासा उत्तरायणम् ।
कर्कादिः तु तथैव स्यात् षण्मासा दक्षिणायनम् ।।

अर्थात्; मकरतः मिथुनं यावत् राशिषु स्थिते दिवाकरे उत्तरायणं
भवति, तु कर्कतः धनुः यावत् राशिगते रवौ दक्षिणायनमिति।
मकर-संक्रान्तितः शिशिरारम्भः उत्तरायणं च चान्द्रमासेन सह योजने यद्यपि पौष-माघयोः इयं संक्रान्तिः भवति, तथापि माघेन साकं योज्यते । अतः माघमाहात्म्ये मकरेण सहैव दृष्टम्-
मकरस्थे रवौ माघे गोविन्दाच्युत माधव ।
स्नानेनानेन मे देव यथोक्त- फलदो भवा ।

मकरे गते सूर्ये दिनमानं वृद्धिम् उपैति । उत्तरायणात् अस्माकं देशस्य उत्तरीभागे शैत्यं शनैः शनैः क्षयं गच्छति, उष्णता च तथैव वर्धते । उत्तरायण कालः अस्माकं संस्कृत्यां यज्ञाद्यर्थं विशेषः । अतः कथितञ्च-
गृहप्रवेशः त्रिदशप्रतिष्ठा विवाह – चौल- व्रतबन्ध – दीक्षा |
सौम्यायने कर्म शुभं विधेयं यत् गर्हितं तत् खलु दक्षिणे चा।

उत्तरायणस्य देवानां दिनरूपेण च मान्यता । अतः माकरः मासः देवप्रभातम् एव । प्रभातं पुण्यमयं भवति । अनेन माकरमासस्य अन्येषां सौरमासानाम् अपेक्षया विशेषः महिमा। शास्त्रकारैः धनूः राशितः मकरे यस्मिन् दिने सूर्यः गच्छति, तस्मिन् दिने स्नान-दान – श्राद्ध – पूजनादीनां पुण्यकालः निर्धारितः । अतः देशस्य प्रायः सर्वेषु भूभागेषु नाना नाम्ना, नाना रूपेण उत्सवाः अपि भवन्ति। बिहारे, झारखण्डे, उत्तरप्रदेशस्य पूर्वाञ्चले च तिलसंक्रान्तिः, खिचड़ी, दही-चूड़ा वा कथयन्ति लोकाः । नेपाले माघे संक्रान्तिः, पंजाबे हरियाणा प्रदेशे च लोहड़ी, बंगाले बंगलादेशे च पौषसंक्रान्तिः, तमिलप्रदेशे पोंगल, असम प्रदेशे माघबिहू, भोगलीबिहू वा नाम्ना अस्य उत्सवस्य प्रसिद्धिः । वस्तुतः अस्माकं देवसंस्कृत्यां भोग- मोक्षप्रदोऽयं कालः । अयं कृषिहेतोः अपि मूल्यवान्। आध्यात्मिक दृष्ट्या देवयानस्य कालत्वात् मोक्षकामी शररशय्या शयानः पितामहो भीष्मः अष्टपञ्चाशत् दिनानि यावत् अस्य प्रतीक्षाम् अकरोत्। यदा अयं सुकालः समागतः तदानीं हृष्टमनाः सः युधिष्ठिरम् अकथयत्-
माघोऽयं समनुप्राप्तो मासः सौम्यो युधिष्ठिर ( अनुशासनपर्वणि १६७.२८) । अनन्तरं सः यौगिक क्रियया प्राणान् त्यक्त्वा दिवं ययौ ।
अतः पुराकालतः एव मकर संक्रान्त्याः भारतीयानां जीवने महत् स्थानं दृश्यते।