जम्मूकाश्मीरेषु युव- प्रकरण क्रीडामन्त्री श्री अनुरागसिंहठाकुरः जम्मूकाश्मीरस्य च राज्यपालः मनोज सिन्हाः अन्ये गणमान्यजनाश्च अद्य राजभवने जम्मूमध्ये खेलो-इण्डिया-शरद्-कालिक- क्रीडाणां तृतीयसंस्करणाय शुभंकरस्य शीर्षक-गीतस्य क्रीडा-वेशस्य च विमोचनं कृतवन्तः वार्ताहरेण कथितं यत् फरवरीमासस्य दशमदिनांकात् कश्मीरसंभागस्य बारामुला जनपदस्य गुलमर्गस्थ- विश्वप्रसिद्ध स्की रिसार्ट मध्ये वृहत्तम खेल आयोजस्य आरम्भो भवति। विमोचन समारोह-अवसरे क्रीडामन्त्री श्री अनुरागसिंहठाकुरः अवदत् यत् खेलो-इण्डिया – विंटर गेम्स, इति खेलो-इण्डिया- अभियानस्य भागत्वेन वर्तते, यत् प्रधानमन्त्रिमोदिनः सुविचारस्य परिमाणत्वेन अस्ति, अस्य माध्यमेन ये युवानः क्रीडाः प्रति सहभागिताम् इच्छन्ति तेषां कृते विशिष्टावसररूपेण वर्तते, पूर्व भारतीय परिवारेषु क्रीडाः प्रति सन्देहदृष्टिर्भवति स्म यत् क्रीडा क्षेत्रे स्वीय पुत्रं पुत्रीं वा प्रेषयेम न वा, अग्रे तेषां भविष्यं किम् समुज्जवलं भविष्यति उत न, इति शंकान्वितं मनः भवति स्म, परन्तु सम्प्रति अभिभावकाः प्राचुर्येण स्वसन्ततिं क्रीडा क्षेत्रं प्रति प्रेषयन्ति, तत् कारणं प्रधानमन्त्रिणः अयं सर्वकारश्चैव वर्तते, यतो हि प्रधानमन्त्री मोदी सदैव क्रीडकान् प्रेरयति, यदा ते अन्ताराष्ट्रियस्पर्धा विशिष्टप्रतियोगितां च प्रति गच्छन्ति तदापि तेषां मनोबलं द्रढयति अपि च यदा ते पुनः स्वदेशं प्रति आगच्छन्ति तदापि तान् स्वीयावासं प्रति आहूय तेषां सम्माननम् उत्साहवर्धनञ्च करोति। सदैव क्रीडकैः सह संवादस्थापनस्य कार्य प्रधानमन्त्रिणा क्रियते, यदि पूर्वसर्वकारैपि एतादृशं आचरणं कृतं स्यात् तर्हि अदय अस्माकं युवानः क्रीडाजगति इतोपि विशिष्टं कीर्तिमानं स्थापयितुं शक्नुवन्ति स्म । अधुना यानि खेलो-इण्डिया फिट इन्डिया सदृशानि यानि अभियानानि सन्ति तेषां कारणादेव क्रीडाक्षेत्रे अस्माकं क्रीडकाः युवानः च आधिक्येन भागं गृणन्ति । अवधेयं यत् खेलो-इण्डिया विन्टर गेम्स- इत्यस्य तृतीयसंस्करणं अस्य मासस्य दशमदिनांकात् चतुर्दशदिनांकं यावत् प्रचलिष्यति, एतस्य च आयोजनं खेलमन्त्रालयेन क्रियते। अस्मिन् खेलमहोत्सवे च आदेशं प्रायः पंचदशशतं क्रीडकाः भागं गृह्णन्ति । उल्लेखनीयं यत्, जम्मू-कक्षे राष्ट्रियशीतकालीनक्रीडायाः आयोजनस्य विचारः २०१९ तमे वर्षे संविधाने अस्थायीप्रावधानस्य अनुच्छेदस्य ३७० इत्यस्य परित्यागानन्तरं कार्यान्वितः । “खेलो इण्डिया शीतकालीनक्रीडा” इत्यस्य प्रथमसंस्करणं २०२० तमस्य वर्षस्य फरवरी-मार्च-मासेषु लेह-गुलमार्ग-नगरयोः आयोजितम् । अत्र उल्लेखनीयं यत् सर्वकारीय-उपक्रमाः उत्तमं परिणामं प्राप्नुवन्ति । कदाचित् दक्षिणकश्मीरे त्रालः अतीव संवेदनशीलः क्षेत्रः इति मन्यते स्म, यत्र अधुना जम्मू-कश्मीरस्य युवानः राज्ये आनयनस्य पुरस्कारं प्रसारयन्ति।











