पीएनजी-राजकीय-स्नातकोत्तर-महाविद्यालय– रामनगरस्य संस्कृतविभागद्वारा “राष्ट्रिय शिक्षानीति-2020 के आलोक में संस्कृत” इति विषये गुरुदिवस-व्याख्यानमाला आयोजिता | अत्र मुख्यवक्तृत्वेन उत्तराखण्ड-संस्कृत- विश्वविद्यालय-हरिद्वारस्य डॉक्टर कंचन तिवारी द्वारा ‘राष्ट्रिय शिक्षानीति 2020 के आलोक में संस्कृत’ इत्यस्मिन् विषये व्याख्यानं विहितम् | डॉक्टर तिवारी महोदयः प्रभावपूर्णरीत्या उक्त-नीतौ उल्लिखित-संस्कृतस्य पारम्परिक-आधुनिक-परम्परयोः सम्बद्धप्रमुख-बिन्दून् उद्घाटयति-यथा- व्याकरणम् ,राजशास्त्रम् ,अर्थशास्त्रम् , 64- कलाः, खगोलशास्त्रम् ,विमानशास्त्रम् ,वैदिकगणितम् – आदि विषयकग्रन्थैः सह आधुनिकविषयाणां संयोजनेन बहुविषयकपाठ्यक्रमनिर्माणेन विद्यार्थीना बहुमुखी विकासः सम्भवति ! नीतौ संस्कृतस्य ज्ञान-विज्ञानविषयाणां पठन-पाठनेन सह संस्कृत- संस्थानानामपि संरक्षणार्थं संवर्धनार्थं च वार्ता विहिता | व्याख्यानस्य प्रारम्भे संस्कृतविभागाध्यक्षः,आयोजकसचिवः डॉ. मूलचन्द्रशुक्लः प्रास्ताविकभाषणे संस्कृतस्य वैशिष्ट्यसन्दर्भे वक्तव्यं प्रस्तुतवान् ! मुख्यातिथिना राष्ट्रपत्यादिपुरस्कारसभाजितेन वरिष्ठसाहित्यकारेण डा. कीर्ति वल्लभ शक्टा महोदयेन उक्तं यत् केवलं कर्मकाण्डादीनां भाषा/विषयत्वेन मन्यमानं संस्कृतं सम्प्रति राष्ट्रियशिक्षानीतौ समुचितस्थानं लब्धवत्|
विशिष्टातिथिः प्रोफे.जया तिवारी,संस्कृतविभागाध्यक्षा कुमाऊं-विश्वविद्यालयः,नैनीतालम् अनया प्रोक्तं यत् राष्ट्रियशिक्षानीतिः वेदादि-संस्कृतशास्त्रेषु निहितं ज्ञान-विज्ञानं समाजस्य समक्षे आनेतुमवसरं प्रददाति | अस्य कार्यक्रमस्य कार्यक्रमनिदेशकः प्राचार्यः प्रोफे.एम.सी.पाण्डे महोदयो वर्तते| अस्य दिशानिर्देशने गुरुदिवस- व्याख्यानमालायाः द्वितीयश्रृंखलाक्रमे द्वादशं व्याख्यानम् आयोजितम्, तेन अतिथीनां स्वागतपूर्वकं व्याख्यानमालायाः उद्देश्यम् “विद्यार्थियों तक बहुविषयक ज्ञान की पहुंच हो” इत्यस्मिन् सन्दर्भे उक्तम् |व्याख्यानान्ते चीफप्रॉक्टर प्रोफेसर जीसी पन्तः अतिथिभिः सह समेषां प्रतिभागिनां कातर्ज्ञ्यं प्रकटयति।कार्यक्रमे तकनीकिसहयोगः डा. अनुराग श्रीवास्तवः,डा. दीपक खाती,डा.प्रकाशबिष्ट इत्यादिभिः प्रदत्तः |











