वार्ताहर: डॉ.दिनेश:चौबे
उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य ज्योतिषज्योतिर्विज्ञानविभागेन शनिवासरे अष्टतमेदिनाङ्के शैक्षणिकभ्रमणस्य आयोजनं कृतम्। पद्मश्री: डॉ.विष्णुधरबाकणकरवेधशाला, डोंगला, उज्जयिनी मण्डलम् इत्यस्थले शैक्षणिकं भ्रमणं जातम् । भ्रमणावसरे विश्वविद्यालयस्य मान्यकुलपति: आचार्यविजयकुमारमेननवर्य: उपस्थित:आसीत् । छात्रै:सह तेन वेधशालायां स्थितं
शङ्कुयन्त्रेणदिशाज्ञानम्,पलभा,अक्षांशसाधनम्, भित्तियन्त्रम्, सम्राटयन्त्रम् , नाडीवलययन्त्रम्, सह अन्यखगोलीयविषयिका: सूचना:प्राप्ता । अश्मिन्नवसरे वेधशालाया:प्रकल्पाधिकारि: श्रीघनश्यामरत्नानिवर्य:उपस्थित: आसीत्।यस्य मार्गदर्शने छात्रान् खगोलीययन्त्राणां विषये सूचनाः प्रदत्ता:। कुलपतिमहोदयेनोक्तं यत् अनेनायोजनेन छात्रा: विषयस्य प्रयोगिकपक्षै: परिचिता: भवन्ति।
यतोहि ज्योतिश्शास्त्रपूर्णरूपेण प्रायोगिकम् अस्ति अतः एतादृशेसु आयोजनेसु छात्राणां सहभागम् आवश्यकं वर्तते।
अवसरेsस्मिन् ज्योतिष ज्योतिर्विज्ञानविभागप्रमुख: डॉ. शुभम् शर्ममहाशयः, डॉ.विजयकुमार:,डॉ.योगेशकुमार:,डॉ.बबलूमिश्र:,डॉ.विनोदपाण्डेय:, डॉ.अविनाशमिश्र:, डॉ. मुनीष मिश्रादया: प्राध्यापका: उपस्थिताः आसन्।











