प्रधानमंत्री नरेंद्र मोदी अमेरिका-मिस्त्र देशयोः पञ्चदिवसात्मिकां यात्रां सम्प्राप्तः उक्तवान् यत् भारत-अमेरिका देशयोः द्विपाक्षीक-सहभागितां सुदृढीकरणाय वैविध्यतायै च महत्वपूर्ण अवसरोऽयम्।

प्रधानमंत्री नरेंद्र मोदी अमेरिका-मिस्त्र देशयोः पञ्चदिवसात्मिकां यात्रां सम्प्राप्तः, उक्तवान् यत् भारत-अमेरिका देशयोः द्विपाक्षीक-सहभागितां सुदृढीकरणाय वैविध्यतायै च महत्वपूर्णम् अवसरोऽयम्। प्रधानमंत्रिणः यात्रायाः प्रथमं स्तरं अमेरिका-देशम् अस्ति। प्रधानमंत्री उक्तवान् यत् भारत-अमेरिकयोः सम्बन्धाः बहुमुखीः सन्ति। देशद्वयं विविधेषु क्षेत्रेषु मिलित्वाकार्यं करोति। वस्तूनां सेवानां क्षेत्रे अमेरिका भारतस्य दीर्घतमं व्यापारिक सहयोगी अस्ति। तेनोक्तं यत् विज्ञान-प्रौद्योगिकी, शिक्षा, स्वास्थ्य: सुरक्षा चेत्येतेषु क्षेत्रेषु भारत-अमेरिका अनन्य- सहयोगी-रूपेण कार्य कुर्वन्ति । प्रधानमंत्री उक्तवान् यत् रक्षा-संबंधी उद्योगेषु सहयोगं, अंतरिक्ष- प्रौद्योगिकी, दूरसंचार, क्वांटम कम्प्यूटर प्रणाली, कृत्रिम मेधा, जैवप्रौद्योगिकी चेत्येतेषु क्षेत्रेषु महत्वपूर्णायाः उदीयमानायाः प्रौद्योगिक्या: संबंधे नवोपक्रमैः द्वयोः देशयोः पारस्परिक सहयोगं व्यापकं संजातम् अथ अस्मिन् सहयोगे नवीन-प्रस्तराः अपि सम्बद्धाः । श्रीमोदी समुदिरितवान् यत् देशद्वयं मुक्त-अनावृत-समावेशी-हिन्दप्रशान्त क्षेत्रस्य संबंधे सहयोगाय मिलित्वा कार्य कुर्वन्ति। प्रधानमंत्री मिस्त्र-देशयात्रायाः विषये उक्तवान् यत सः राष्ट्रपति अब्देल फतह अल- सीसी इत्यस्य निमंत्रणे कायरो-नगरे संगमिष्यति, सः मिस्त्र-सदृशे घनिष्ठे मित्रराष्ट्रे अधिकारिकी-यात्रायै अत्युत्सुकः अस्ति। श्री मोदी उक्तवान् यत् सः राष्ट्रपति अल-सीसी, मिस्त्र- सर्वकारस्य वरिष्ठ सदस्यैः सह व्यापकां चर्चा विधास्यति। अस्याः चर्चायाः उद्देश्यः अस्माकं सभ्यतायै बहुपाक्षिक-सहयोगितायै वरतरं संवेगाधानं अस्ति। श्री मोदी उक्तवान् यत् सः मिस्त्र देशे भारतीय-जनैः सह अपि संवाद करिष्यति।