पुणेनगरे जी-विंशाति: शिक्षाकार्यसमूहस्य चतुर्थ-उपवेशनं समारब्धम्

भारतस्य जी-विशंति: अध्यक्षतायाः मुख्यसमन्वयकः हर्षवर्धन-श्रृंगला इत्यनेन उक्तं यत् वैश्विकस्तरे उत्पद्यमानानां समस्यानां आशाजनक समाधान-कर्तारूपेण भारतं प्रति पश्यति। अद्य पुणेनगरे जी-विंशाति: शिक्षाकार्यसमूहस्य चतुर्थ-उपवेशनस्य उद्घाटनं कुर्वन् सः विश्वासं प्रकटितवान् यत् आधारभूत साक्षरता, अंकज्ञानं च भारतेन साकं सम्पूर्ण विश्वस्य कृते महत्वपूर्णः इति। इदम् उपवेशनं भविष्ये एतेषु विषयेषु नितिनिर्माणाय सहायकं भविष्यति। श्री श्रृंगला-इत्यनेन चेन्नई, अमृतसर, भुवनेश्वर चेत्येषु नगरेषु आयोजितस्य शिक्षाकार्यसमित्याः उपवेशनाय सूचनां अपि प्रदत्तः ।
उच्चतर शिक्षा-सचिवः के. संजय मूर्ति: सहभागीदेशानां प्रतिनिधिभिः सह उपस्थितः आसित। जी-विंशतिः सदस्यदेशानां, ओ. ई. सी. डी, यूनेस्को, यूनीसेफ चेत्यादीनां संस्थानां प्रायशः पञ्चाशीति-प्रतिनिधिभिः सह उपवेशने आधारभूत शिक्षा, अंक-ज्ञानञ्च सुनिश्चेतुं विमर्शः करिष्यन्ति ।
जी-विशंति: चेन्नई –
जी-विंशति सतत्-वितयन्- कार्यसमूहस्य उपवेशनस्य द्वितीय-दिवसे अद्य चेन्नई-नगरे, जलवायु-वित्ताय संसाधनानां पर्याप्तं सामयिकञ्च उपलब्धतां सुनिश्चेतुं संरचनायाः निर्माणाय चर्चा संजाता।
सदस्याः यः अभवत् विमर्शस्य आधारे कार्बन उत्सर्जनं न्यूनीकरणाय निवारणाय च चिन्तितवन्तः। अपराहने कार्यशालायाः पूर्वघटनायां भारतीय अध्यक्षः अवदत् यत् उच्चगुणवत्ता- सामयिका-सूचनायाः उपलब्धता वित्तीय-भयान् जलवायु-लक्ष्यैः सह सम्बद्धेषु अवसरान् प्रभावाञ्च अवगन्तुं आधारभूत आवश्यकता अस्ति ।