उत्तराखण्डे उत्तरकाशीनगरस्य सिल्क्यारासुरङ्गे एकचत्वारिंशत् व्रणित श्रमिकान् सुरक्षितरूपेण निष्कासनस्य प्रक्रिया प्रचलति।

उत्तराखण्डस्य उत्तरकाशी मण्डले निर्माणाधीनस्य सिल्क्यारा सुरङ्गस्य अन्ते प्रबद्धानाम् एकचत्वारिंशत्-श्रमिकाणां सुरक्षित-रूपेण उद्धाराय सहाय-उद्धार- अभियानं प्रचलति। प्रधानमन्त्रिणा नरेन्द्रमोदिना उत्तराखण्ड राज्यस्य मुख्यमन्त्रिणा पुष्करसिंह-धामी इत्यनेन प्रबद्धानां श्रमिकाणां सुरक्षा विषये दूरभाषया वार्ता कृता आश्वासितं च यत् सर्वान् श्रमिकान् सुरक्षितरुपेण बहिः निष्कासयितुम् अस्माकं शीर्ष प्राथमिकता वर्तते। अन्ताराष्ट्रिय सुरङ्गस्य, भूमिगत-स्थल-संघटनस्य च अध्यक्षः ‘अर्नाल्ड डिक्स’ दुर्घटना स्थले एव उपस्थितः अस्ति। तेनापि उक्तं यत् सर्वान् श्रमिकान् शीघ्रमेव सकुशलं बहिः निष्कासयिष्यन्ति। सम्प्रति एकस्मिन् उपाये द्रुतगत्या कार्य क्रियते, अवशिष्टानां उपायानां शीघ्र कार्यान्वयनार्थ योजनाः क्रियन्ते। केन्द्रीय पथपरिवहन तथा राजमार्गमन्त्री नितिन गडकरी, मुख्यमन्त्री पुष्करसिंह धामी च अद्य घटनास्थलं गतवन्तौ। प्रधानमन्त्रिकार्यालये उपसचिवः मंगेशघिल्डियालः प्रधानमन्त्रिणः पूर्वपरामर्शदाता भास्करखुल्बे, उत्तराखण्डसर्वकारस्य अधिकारिभिः विशेषज्ञैः च ह्यः राष्ट्रियराजमार्गस्य आधारभूतसंरचना विकासनिगमलिमिटेड इति समवायस्य निदेशकेन सह उपवेशनं कृतमासीत्। ते घटनायाः अन्येषु च तत्सम्बद्धेषु विषयेषु विस्तरेण चर्चा कृतवन्तः । प्रधानमन्त्रिकार्यालयस्य उपसचिवः मङ्गेश घिल्डियालः अवदत् यत् सर्वकारः वैकल्पिकपद्धतीनां अन्वेषणं कुर्वन् विशेषज्ञैः परामर्श याचते। ध्येयास्पदं वर्तते यत् सुरङ्गस्य आभ्यन्तरे षड्-इंच-मितं यावत् नलिका स्थापयितुं आपत्-उद्धार-कर्मचारिणः सफलाः जाताः येन श्रमिकान् भोजनम् औषधि, जलम् इत्यादि अन्यापि महत्वपूर्ण सहाय्योपयोगी सामाग्री तत्र प्रदास्यते।