हरिद्वार उत्तराखण्डसंस्कृताकादम्या: परिसरे अखिलभारतीयज्योतिषसम्मेलनस्य आयोजनं सञ्जातं । ज्योतिषसम्मेलने देशस्य विभिन्नराज्येभ्यः ज्योतिर्विदुषां सम्मेलनम् अभवत् । कार्यक्रमस्य आरम्भः स्वामीनित्यानन्दवेदविद्यालयस्य वैदिकपुरोहितैः वैदिकाह्वानेन च आगन्तुकैः अतिथिभिः दीपप्रज्ज्वालनं सरस्वतीपूजना च अभवत्। आगन्तुकातिथीनां स्वागतं कार्यक्रमसंयोजक: पण्डित: रमेशसेमवाल: व अकादमीसचिवशिवप्रसादखाली कृतवन्तौ। सम्मेलनस्य मुख्यविषयः ज्योतिषशास्त्रे मुहूर्तस्य महत्त्वम्, वास्तुशास्त्रे गृहनिर्माणपद्धतिः च आसीत् । प्रमुखाः ज्योतिर्विद: विषयेषु स्वस्य शोधपत्राणि प्रस्तुतवन्तः ।
अवधूतमण्डलाश्रमहरिद्वारस्य अध्यक्षः स्वामी रूपेन्द्रप्रकाशमहाराजः ज्योतिषशास्त्रस्य महत्त्वं प्रकाशयन् उक्तवान् यत् ज्योतिषं न केवलं वेदेषु नेत्रं अपितु अस्मिन् जगति सर्वेषां मानवजातेः मार्गदर्शकं कालनिर्धारकं च विज्ञानम् अस्ति। ज्योतिषशास्त्रं विना जीवनस्य कल्पना न सम्भवति यतोहि ज्योतिषशास्त्रस्य साक्षात् सम्बन्धः अस्माकं सौरमण्डलेन सह अस्ति तथा च आधुनिकविज्ञानेन ग्रहकिरणाः अस्माकं जीवनं प्रभावितं करोति इति सिद्धान्तमपि स्वीकृतम् अस्ति । कार्यक्रमस्य समन्वयकः ज्योतिर्विद् रमेशसेमवालः अवदत् यत् ज्योतिषशास्त्रे मुहुर्तस्य विशेषं महत्त्वं वर्तते। मनुष्याः जन्ममरणं विहाय प्रत्येकस्मिन् कार्ये मुहूर्तस्य विषये विचारं कुर्वन्ति।आधुनिकयुवकाः स्वमूल्यानां सिद्धान्तानां च अनुसरणं कुर्वन्तु, अतः एव एतादृशसम्मेलनम् अतीव आवश्यकम् अस्ति।











