लक्ष्मणपुरे ‘सरलमानकसंस्कृतम्’ इत्यस्मिन् विषये राष्ट्रियकार्यशाला सम्पन्ना

वार्ताहरः- प्रवेशकुमारशुक्ल:,लखनऊ

भारतसर्वकारस्य भारतीयभाषासमितिः, केन्द्रीयसंस्कृतविश्वविद्यालयः (लखनऊ-परिसरः) श्रीबाबानिबकरौरीजीवेदविद्यालयः (हनुमानसेतुः) चेत्येतेषां संयुक्तोद्यमेन दिनाङ्कः 09.02.2024 तमे दिनाङ्के ‘सरलमानकसंस्कृतम्’ इति विषये कार्यशालायाः आयोजनं जातम्। श्रीबाबानीबकरौरीजीवेदविद्यालयस्य सभागारे अयं कार्यक्रमः प्रातः 10:00 वादनतः सायं 05:00 वादनपर्यन्तं आयोजितः।
कार्यशालायाः अध्यक्षता केन्द्रीयसंस्कृतविश्वविद्यालयस्य (लखनऊपरिसरस्य) माननीयनिदेशकः प्रो. सर्वनारायणझाः अकरोत्। असौ स्वीये वक्तव्ये उक्तवान् यत् ‘शिक्षाक्षेत्रे सरलमानकसंस्कृतस्य उपयोगेन अनुवादं विना अपि शैक्षणिकक्रियाकलापाः उत्तमरीत्या सम्पादयितुं शक्यन्ते। वाणिज्य-विधि-प्रबन्धन-समाजशास्त्र- इतिहासादिविविधविषयेषु ‘सरलमानकसंस्कृतस्य उपयोगेन अध्ययनाध्यापने सम्पादयितुं शक्येते। एवमेव उत्तराखण्डे द्वितीयराजभाषात्वेन स्वीकारानन्तरं तु सरलमानकसंस्कृतेन लोव्यवहारस्य समधिका आवश्यकता अनुभूयते।
अस्यां कार्यशालायां देशस्य प्रख्याताः विद्वांसः स्वीयान् अमूल्यान् विचारान् प्रस्तुतवन्तः।
प्रथमसत्रे “किमर्थं सरलमानकसंस्कृतम्” इति विषये व्याकरणशास्त्रस्य अग्रगण्यो विद्वान् केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरस्य व्याकरणविभागस्य प्राध्यापकः प्रो. भारतभूषणत्रिपाठी ‘सरलमानकसंस्कृतेन’ सह ‘सरलमानकव्याकरणस्य’ प्रयोगस्य विषये स्वाभिप्रायं प्रायच्छत्। स्ववक्तव्ये बहुभिः उदाहरणैः असौ संस्कृतस्य सरलं शुद्धं च प्रयोगं स्यादिति उक्तवान्।
द्वितीयसत्रे “सरल-मानक-संस्कृतस्य स्वरूपम्” इति विषयाधारिते व्याख्याने बिहारस्य दरभङ्गास्थ- कामेश्वरसिंहदरभंगासंस्कृतविश्वविद्यालयस्य व्याकरणविभागस्य सहायकाचार्यः डॉ. यदुवीरस्वरूपब्रह्मचारी हलन्तशब्दानां स्थाने प्रकारान्तरेण अजन्तशब्दानां प्रयोगस्य प्रविधिं प्रास्तौत्। स्वभाषणे सः सरलमानकसंस्कृतस्य स्वरूपं विविधदृष्ट्या स्पष्टीकृतवान्।
तृतीयसत्रे लखनऊपरिसरस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य व्याकरणविद्यालयस्य आचार्यः प्रो. धनीन्द्रकुमारझाः ‘सरलमानकसंस्कृतेन प्रौढसंस्कृतस्य परिवर्तनस्याभ्यासः’ इति विषये व्यवस्थितरूपेण व्याख्यानं प्रदत्तवान्। स्वव्याख्याने सः अवदत् यत् समाजे संस्कृतं प्रौढं कठिनं च मन्यते, परन्तु व्याकरणे किञ्चित् परिवर्तनं कृत्वा संस्कृतस्य प्रयोगः सरलतया शुद्धतया च कर्तुं शक्यते।
चतुर्थे सत्रे लखनऊविश्वविद्यालयस्य संस्कृतविभागस्य सहायकाचार्यः डॉ. अशोककुमारशतपथी ‘सरलमानकसंस्कृतस्य क्रियान्वयनम्’ इत्यस्मिन् विषये स्वविचारान् प्रकटयन् अकथयत् यत् ‘शिक्षाक्षेत्रे अनुवादं विना अपि संस्कृतस्य प्रयोगः सम्यक्तया कर्तुं शक्यते।‘ इति। लोकव्यवहारे तस्य प्रयोगेन संस्कृतं जनानां मध्ये व्यापकं भविष्यति।
पञ्चमे सत्रे लखनऊस्थ-नवयुगकन्या-महाविद्यालयस्य आचार्या प्रो. रीतातिवारीमहोदया कार्यालयेषु शैक्षणिकसंस्थाषु च संस्कृतस्य सरलमानकस्वरूपस्य कार्यान्वयनस्य महत्त्वपूर्णान् उपायान् उत्तमरीत्या अकथयत्।
अस्याः कार्यशालायाः समन्वयकः डॉ. चन्द्रकान्तद्विवेदी, संयोजकः डॉ. प्रफुल्लगडपालः सहसंयोजकः डॉ. रुद्रनारायणनरसिंहमिश्रः च आसन्। कार्यशालायां प्रायः 200 छात्राः नागरिकाश्च भागग्रहणं कृतवन्तः।