राष्ट्रियसेवायोजनाशाखाद्वारा समायोजित; चेतनाकार्यक्रम:

अस्माकम् उत्तममतदानेन समाजः सशक्तं सुरक्षितं च विकासं प्रति गच्छति- “प्रधानाचार्य रमाकान्तकुकरेती”

वार्ताहर:- कुलदीपमैन्दोला

कोटद्वारं। यथा सर्वे विज्ञा: यत् साम्प्रतिके काले निर्वाचनसमय: सम्प्राप्त: तदर्थं निर्वाचनायोगेन मतदातृणां कृते विविधमाध्यमै: प्रचारप्रार: जनजागरुकतायां संचालितोस्ति क्रमेस्मिन्नेव पौडीजनपदस्य कण्वघाटीस्थिते विद्यालये अपि मताधिकारस्य समुचितप्रयोगस्य च मतदाताजागरूकताभियानस्य अन्तर्गतं राजकीयवरिष्ठमाध्यमिकविद्यालयकण्वघाट्यां राष्ट्रियसेवायोजनाशाखाद्वारा अभियानस्य माध्यमेन चेतनाकार्यक्रमस्य आयोजनं कृतम्। अस्मिन् काले मतदातृभ्यः मतदानशपथमपि प्रदत्तम् । कार्यक्रमे प्राचार्य: रमाकान्तकुकरेती, कार्यक्रमाधिकारी राकेशमोहनध्यानी, व्यायामप्रभारी उमेशचंद्र:, प्रवक्ता के. के. शर्मा एवं छात्रा: सोत्साहेन भागं गृहीतवन्त: ।

अस्मिन् अवसरे प्राचार्यः श्री रमाकान्तकुकरेतीवर्य: उक्तवान् यत् सर्वेषां नागरिकाणां मताधिकारस्य प्रयोगः अवश्यं भवितव्यं यतोहि एतेन अस्मान् जागरूकमतदातारूपेण उत्तमप्रतिनिधिचयनस्य अवसरः प्राप्यते। अस्माकम् उत्तममतदानेन समाजः सशक्तं सुरक्षितं च विकासं प्रति गच्छति। एतस्मिन् समये विद्यालयपरिसरतः किशनपुरीचौकपर्यन्तं सभायाः आयोजनं कृतम् यस्मिन् छात्राः जयघोषेण च सूक्तिपट्टिकामाध्यमेन च जनान् जागरूकं कृतवन्तः।