अम्बायाः उपनेत्रं लुप्तम्। निमू मिर्ची च तस्य अन्वेषणं कुरुतः। परन्तु ताभ्याम् अन्यत् किं किं लभ्यते?
“मम उपनेत्रम्!” ओ ओ। अहं तं स्वरं जानामि। अम्बायाः उपनेत्रं लुप्तम्। पुनः। अस्तु, चिन्ता मास्तु! अहं मिर्ची च स्तः। अवां तत् प्राप्स्यावः। शय्यायाः अधः वयं एकां कुञ्चिकां प्राप्नुवः। उपनेत्रं तु नास्ति। तन्तौ द्वौ खगौ पश्यावः। तत्र उपनेत्रं नास्ति। पाकाशालायां आवां तिस्रः अन्तःपेटिकाः उद्घाटयावः। आवं मम जन्मदिन्य चत्वारी मधुराणि प्राप्नुवः।
उपनेत्रमं तु न। “शू……” पश्यतु, आवां किं प्रान्पुवः।
मियाव!!
कम्बले पञ्च मारजारशावकान् प्राप्नुवः। तेषां समीपे उपनेत्रं नास्ति। वातायने षट् सस्यानि सन्ति। तानि सस्यानि प्रथमं दक्षिणतः वेल्लन्ति, तदनन्तरं वामतः वेल्लन्ति। उपनेत्रं तु नास्ति।
आवं असन्दस्य अधः, उत्पीठिकायाः अधः, निधानिकायाः सप्त सोपाने पश्यावः। उपनेत्रं नास्ति।
भोजनोत्पीठिकायाम् अष्ट स्यूताः सन्ति। एकस्मिन् स्यूते पृथुकं प्राप्नुवः। आवां फलानि प्राप्नुवः। आवां चोकलेहं अपि प्राप्नुवः। परन्तु उपनेत्रं न प्राप्नुवः।
अम्बायाः प्रावारके नव कोषाः सन्ति। आवां तस्मिन्………. एकं नाणकम् , द्वौ चायस्यूतौ, तिस्रः लेखनीः , चत्वारि पत्राणि, पञ्च केशसूचीः , षट् कुञ्चिकाः, सप्त देयकानि, अष्ट कुड्मान् ,नव अक्षोटानि प्राप्नुवः इदानीं अपि उपनेत्रं न लभ्यते।
“वुफ्…..!” “अम्ब!” किम्? “भवत्याः शिरसि उपनेत्रम्!”
“भवत्यौ मम उपनेत्रं प्राप्तुं साहाय्यम् अकुरुताम्! भवत्यौ उपायनम् अर्हतः।
अतः अम्बा दश बृहतः रुचिकारान् लड्डुकान् मम कृते, अपि च मिर्ची कृते करोति।
“मम दूरवाणी!”
अम्बा आक्रोशं करोति। ओ ओ!











