स्वयंवर-सभा (चुनावी हास्य-व्यङ्ग्य-दर्शनम्)

मार्कण्डेय शारदेय रचयिता – व्याख्या

वातावरणे वासन्तिको नवोत्साहः। क्वचित् मधु पीत्वा मत्ताः भ्रमराः कवन्ति, तु क्वचित् मधुमक्षिकाः भन्नायन्ते। मानवीये समाजे विवाहोत्सववत् सर्वत्र प्रसन्नता च। क्वचित् स्मितहसितम्, क्वचित् हसितम्, क्वचित् विहसितम्, क्वचित् उपहसितम्, पुनश्च क्वचिद्, अपहसितम्, अतिहसितञ्च। यत्र-तत्र षड्विधं हास्यम् अन्तर्बहिः आर्द्राकरोति। गायक-गायिकानांः कलगानेन सुमधुरेण वाद्येन च मादकतायाः वृद्धिः जायते। ध्वज-पताकाः नाना रङ्ग-चिह्नानि च पुष्पवाटिकायां प्रफुल्लितानां विविधानां पुष्पाणां स्मरणं कारयन्ति। यथा विवहनीयाः युवत्यः आत्मगतां नवां नवाम् आशां विवाहान्तरं स्वप्नस्य निलयं सर्वत्र सुख-समृद्धिं परिपाल्य मोदन्ते, तथैव मोदते जनता।
नेयं दमयन्ती, नेयं तस्याः कृते आयोजिता स्वयंवरसभा। नेयं इन्दुमती, यस्याः विवाहस्य कृते इयं सभा। नेयं वरवर्णिनी सीता, यस्यै धनुर्यज्ञात्मकम् आयोजनम्। नेयं द्रौपदी, यस्यै वरवरणार्थ महोत्सवो ऽयम्। इयं जनता। इयं न सार्वकालिकम्, अपितु पाञ्चवार्षिकं वरेण्याय वरणाय समुत्सुका।
पुरोहित-रूपिणा निर्वाचनस्य आयोगेन स्वयंवरस्य सभायाः मुहूर्तः घोषितः। घोषिते मुहूर्ते सर्वे वराः विजयमाल्यं स्वग्रीवायां लब्धुकामाः अतिथिवत् सुसज्जिताः समागमने प्रारब्धाः। एकस्मात् एकतराः सौभाग्य-शालिनः दुर्भाग्य-शालिनश्च । केचित् दलबद्धाः तु केचित् दलहीनाः एव। केचित् शिक्षिताः, तु केचित् शिक्षितेतराः। केचित् दीनानां परिपालकाः, तु केचित् वध्यै सर्वं समर्थ दासोऽहं दासोऽहमिति उक्त्वा उक्त्वा सेवमानाः। केचित् निर्धनतां दूरीकर्तुं प्रचारयन्तः ऐश्वर्यलिप्ताः, तु केचित् इन्द्रजालिनः। केचित् वाग्मिनः, तु केचित् वाचालाः। केचित् विद्वांसः, तु केचित् मल्लाः। केचित् भयङ्कराः, तु केचित् सौम्याः। केचित् द्विजिह्वाः, तु केचित् मूकाः। केचित् भीकराः, तु केचित् कितवाः। केचित् वदरीफल-सन्निभाः, तु केचित् विषकुम्भ- पयोमुखाः। केचित् आत्मश्लाघिनः, तु केचित् चाटुभिः श्लाघ्याः। केचित् राजनीति-निपुणाः, तु केचिता नवोदिताः, राजनीत्यां प्रविष्टाः। केचित् वंशवादिनः, तु केचित् धर्मवादिनः। केचित् पितृवादिनः, तु केचित् पुत्रवादिनः। केचित् जातिनायकाः, तु केचित् ग्रामनायकाः। केचित् पद-प्रतिष्ठा-वृद्ध्यै प्रत्याशिनः, तु केचित् गृहकोष-वृद्ध्यै प्रत्याशिनः। केचित् दूरदेशात् आगताः, तु केचित् कारागारात् एव। केचित् कारागारात् एव अभ्यर्थिनः, तु केचित् चिकित्सालयात् एव। केचित् आत्महिते राष्ट्रहितैषिणः, तु केचित् आत्महिते बन्धु-बान्धव-हितैषिणः। केचित् दलबद्धाः दलं त्यक्त्वा भिन्नेन दलेन बद्धाः, तु केचित् दलेन विरमिताः स्वतन्त्राः च।
यथा हट्टे विभिन्नानि सुसज्जितानि वस्तूनि विक्रयाय प्रदर्शयन्ते, तथैव इमे अपि दृश्यन्ते। यथा विक्रेतारः आत्मनः आपणस्य वस्तुनः गुणवत्तां मूल्यवत्तां शुद्धतां स्थायितां सेवनोपयुक्ततां च विज्ञापयन्तः, परेषां वस्तुनः निन्दन्ति, तथैव इमे अपि। यथा मत्स्यहट्टे कोलाहलं भवति, तथैव एतेषाम् अपि जेष्यति भ्रातः ! जेष्यति नटवर- नागरः जेष्यति इत्थं सामूहिक- घोषशब्दैः निर्वाचन-चिह्नाङ्कितैः ध्वजैश्च वातावरणे नवत्वं प्रसार्यते। एतेषु केचित् मत्स्यन्यायिनः, तु केचित् अवश्यमेव समाजस्य राष्ट्रस्य च हितचिन्तकाः, अल्प-स्वार्थरहिताः च। परन्तुः तेषाम् अभिज्ञानं न सरलम्। दुग्ध-जलवत्, तिल-तण्डुलवत् वा पृथक्करणं कठिनम्।
अस्तु; ग्रामे ग्रामे, नगरे नगरे आगतान् वरणीयान् जनता अभितः परितः वारं वारं विलोकन-तत्पराः। कः सुयोग्यः? इति परीक्षितुं रता। कस्यचित् भाषणं श्रुत्वा च मुग्धा, तु कस्यचित् शौर्य श्रुत्वा। कस्यचित् त्यागं श्रुत्वा, तु कस्यचित् पूर्वजानां बलिदानं श्रुत्वा जनता विह्वला। कस्यचित् अभिनये प्रवीणतां दृष्ट्वा प्रसन्ना, तु कस्यचित् रूपे एव मुग्धा।
अस्तु; जनता कः चेयः? कः चेयः ? इति प्रश्ने मन्थने रता। मोहमदः सुयोग्यो गोपीरामो वा। आरक्षिणां सर्वश्रेष्ठं पदं परित्यज्य प्रत्याशिरूपेण आगतः आदिनारायणः सुयोग्यः, चिकित्सावृत्तिं संत्यज्य लोकसेवने आगतः डा. आशानाथ पण्डितो वा। जनता वरमालां नीत्वा वरितुं विचारयति, तावत् कोऽपि तस्याः कर्णे किञ्चित् कथयति। सा अपरं चेतुम् अग्रे चलति। शीघ्रमेव तन्मनोवृत्तिं ज्ञात्वा कोऽपि भुणभुणायते। तच्छ्रुत्वा पुनः अग्रे कस्मिंश्चित् मनःस्थिरीकरोति, तावत् कापि सखी अनुलोमं विलोमं त्यक्त्वा सवर्णः उचितः इति उपदिशति। अतन्तः सुयोग्यतां विसार्य सख्या वाञ्छितं कृतम्। यथा विद्योत्तमा छलिता, तथैव सापि छलिता।
कामनाः, सर्वाः आशाः छिन्नाः भिन्नाः च। इदमेव सन्तोषकरं यत् विधानात् पाञ्चवार्षिकम् एव चयनम्, न सम्पूर्णस्य जीवनस्य कृते। तथापि काराबद्धेन समानः समयः कष्टसाध्यः। इदमपि सत्यं यत् आगामिनि निर्वाचने पुनः वञ्चनं भविष्यति वा न वावरणे जनतायाः आशायाः गतिः तथैव, यथा कमलकोशे बद्धस्य भ्रमरस्य-
रात्रिः गमिष्यति भविष्यति सुप्रभातं
भास्वान् उद्देष्यति हसिष्यति पङ्कजश्रीः।
इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त! हन्त !! नलिनीं गज उन्नहार।