बौद्धमतानुयायिनां कञ्चित् प्रधानं पर्व एतत् । बुद्धजयन्ती प्रतिवर्षं वैशाखपूर्णिमायाम् आचर्यते । क्रि.पू.५६३तमे वर्षे अस्मिन् एव दिने भगवतः बुद्धस्य अवतारः अभवत् इति बौद्धानां विश्वासः । क्रि.पू.४८३तमे वर्षे ८०वर्षीयः भगवान् गौतमबुद्धः अस्मिन् एव पूर्णिमायाः दिने एव काश्मीरनगरे बुद्धः निर्वाणः अभवत् । भगवतः बुद्धस्य जन्म ज्ञानप्राप्तिः महानिर्वाणः त्रयः अपि अस्यां वैशाखपूर्णिमायाम् एव अभवत् इति विशेषः । एतावता कालेन कस्यचिदपि अन्यमहापुरुषस्य विषये एवं नाभवत् । अस्मिन् युगे बौद्धमतावलम्बिनः ५०कोटिजनाः अस्मिन् विश्वे सन्ति । अयं बौद्धपूर्णिमा उत्सवः भारतम्, नेपाल, सिंगापुर, वियतनाम्, थैलैण्ड, काम्बोडिया, मलेशिया, श्रीलङ्का, म्यान्मार, इण्डोनेशिया पाकिस्तान् देशेषु जनाः श्रद्धया आचरन्ति ।
‘महाभिनिष्क्रमणाय’ निर्गतोऽयं श्रमणवेशं धारयित्वा स्थानात् स्थानं भ्रमन् बोधगयामगच्छत्। तत्र च षटवर्षाणि तपस्तेपे। तत्रैव वरमूले स: ‘महाबोधं प्राप्तवान्। ततः सः ‘बुद्ध’ इतिनाम्ना विख्यात जातः।
अस्य धर्मोपदेशः अतीव सरल:। अस्य प्रमुख: सिद्धांतः आसीत् ‘अहिंसा परमो धर्म:’। धर्मप्रचाराय, मानवानां दुख निवारणाय च सः वाराणसीं प्रस्थितः। तत्पश्चात् सकले उत्तरभारते परिभ्रमन् धर्मोपदेशः कृतः। बौद्धधर्मस्य प्रसारः कृतः।
बौद्धधर्मः आचारप्रधानः अस्ति। सत्कर्म, अहिंसा, दय, ईदृशः सरलः सुकरः च सिद्धांतः अस्य धर्मस्य। भगनता बुद्धेन ‘पशुहत्या’ सदैव खण्डिता। तेन वर्णाश्रम व्यवस्थायाः प्रथिषेधः कृतः। राज्ञा अशोकेन अपि बौद्ध-धर्मः स्वीकृतः इति सर्वविदितम्।
भगवतः बुद्धस्य उपदेशेन निखिले संसारे शांतिः अहिंसा, मैत्री च संजाता अतएव अयं महात्मा न केवलं भारतीयानां, अपितु तु समस्तजगत: वन्दनीयः अस्ति।











