नबीकरणीय ऊर्जासचिवः भूपिन्द्रसिंहभल्लाः वैश्विकहाइड्रोजन अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निव्र्योढूम् देशस्य दृढनिश्चयं. बोधितवान्। नीदरलैण्ड्देशस्य रॉटरडैम्-नगरे चतुर्विंशत्यधिक द्विसहस्रतमं विश्वहाइड्रोजन-शिखरसम्मेलनं सम्बोधयन् सः प्रतिनिधिभ्यः हरित-हाइड्रोजनेत्यस्य उत्पादनस्य कस्यापि परिमाणस्य पूर्तये भारतस्य क्षमतायाः आश्वासनं प्रदत्तवान्। सचिवेन उक्तं यत् देशस्य स्थायि ऊर्जास्रोतांसि प्रति संक्रमणस्य प्रतिबद्धतायाः अनुरूपं त्रयोविंशत्यधिकद्विसहस्र तमवर्षपर्यन्तं जीवाश्म-इन्धन- स्रोताभ्यां स्थापिता विद्युत्-क्षमता पञ्चाशत् प्रतिशतं वर्धते इति अनुमानितम् अस्ति। नवीकरणीय ऊर्जासचिवेन उक्तं यत् “प्रतिस्पर्धात्मकमूल्यनिर्धारणेन सह भारतं नवीकरणीय ऊर्जापरियोजनासु घरेलु-अन्तर्राष्ट्रीयनिवेशानां कृते आकर्षकं परिदृश्यं प्रस्तुतं करोति, यत् स्थायि ऊर्जास्रोतानां प्रति संक्रमणं कर्तुं राष्ट्रस्य प्रतिबद्धतायाः सह सङ्गतिं करोति।”. सचिवेन भारतस्य एकीकृत ग्रिड संरचनायाः प्रकाशनं कृत्वा नवीकरणीय ऊर्जास्रोतानां राष्ट्रिय ऊर्जामिश्रणे निर्विघ्नतया एकीकरणाय प्रमुखसक्षमकर्तृत्वेन प्रकाशितम्। सः शिखरसम्मेलनस्य प्रेक्षकान् अवदत् यत् एषः एकीकृत ग्रिड नवीकरणीय ऊर्जासंस्थानानां रणनीतिकस्थापनं, कार्यक्षमतां अनुकूलितुं, दीर्घदूरपरिवहनस्य, हाइड्रोजनस्य भण्डारणस्य च आवश्यकतां न्यूनीकर्तुं च सक्षमं करोति।











