रामनगरम्। रामनगरस्थ-पीएनजी राजकीय- स्नातकोत्तर-महाविद्यालय- योग-वैकल्पिक- चिकित्साविभागस्य योगप्रशिक्षकः मुरलीधर कापड़ी महोदयः ‘वैदिकवाङ्मये प्राणतत्त्वस्य यौगिकानुशीलनम् ‘ इत्यस्मिन् योगविज्ञानविषयके शीर्षके पीएचडी इत्युपाधिः प्राप्तः। मुरलीधर कापड़ी महोदयाय पीएचडी उपाधिः जगदीश प्रसाद झावरमल टीबड़ेवाला विश्वविद्यालय झुंझुनू राजस्थान द्वारा प्रदत्तः। अयं स्वशोधकार्यं योगविज्ञानविभागस्य शोधनिदेशकस्य डॉ.राजेश कुमार इत्यस्य कुशलमार्गनिर्देशने पूर्णं कृतवान्। विद्यावारिधि-उपाधेः पूर्वं मुरलीधर कापड़ी पी.जी. डिप्लोमा इन योगस्य स्नातकोत्तरयोगस्य च उपाधिं सोबन सिंह जीना विश्वविद्यालय,अल्मोड़ा इत्यतः योगविज्ञान-विभागाध्यक्षस्य डॉ.नवीनचन्द्रभट्टस्य दिशानिर्देशने प्राप्तवान्। अयं स्वसाफल्यस्य श्रेयः माता -पितृभ्यां,गुरुजनेभ्यः,पत्न्यै, भ्रातृभ्यश्च दत्तवान्। डॉ.मुरलीधर महोदयस्य उपाधि-मेलनात् परं महाविद्यालयस्य प्राचार्यः प्रोफेसर एम.सी.पाण्डे,कुलानुशासकः प्रो.एस.एस.मौर्यः, प्रो.जे.एस.नेगी,डॉ.सुमन कुमारः,डॉ.मूलचन्द्र शुक्लः, डॉ.डी.एन.जोशी,डॉ.नितिन ढोमणे इत्यादिभिः सह महाविद्यालयपरिवारस्य नैके जनाः वर्धापनानि शुभकामनाश्च दत्तवन्तः। योगप्रशिक्षकः मुरलीधर कापड़ीमहोदयः विगतवर्षेभ्यो योगस्य प्रचारप्रसाराय प्रत्येकं जनं यावत् जनजागरूकतामाध्यमेन नि:शुल्कं योगशिविराणि उत्तमस्वास्थ्यलाभाय समायोजयति।











