२०२४ तमस्य वर्षस्य जूनमासस्य ९ दिनाङ्के प्रतापजयन्ती भविष्यति

प्रतापजयन्ती, महाराणा प्रतापजयन्ती इति अपि प्रसिद्धा, एकः उत्सवः, सार्वजनिकावकाशः च अस्ति, यत्र भारतीयशासकस्य महाराणाप्रतापस्य जन्मदिवसः भवति । २०२४ तमस्य वर्षस्य जूनमासस्य ९ दिनाङ्के अस्य उत्सवः भविष्यति । ‘मेवाड’ इति स्थानं उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् आप । अत्रत्ये सिसीदियावंशे बाप्परावलः राणाहमीरः, राणासांगा प्रभृतयः शूराः जन्म लेभिरे । एतस्मिन्नेव पुण्यवंशे महाराणाप्रतापसिंहः किस्ताब्दीयचत्वारिंशदुत्तरपञ्चदशशततमे वर्षे जातः । तस्य पिता उदयसिंहः । तस्मिन् समये बहवो राजानः मोगलचक्रवर्तिभिः सह आयुध्य पराजयम् अनुभूय तानेव दिल्लीश्वरान् भावयन्ति स्म । केचन तेषामेव सेवया आत्मनः धन्यान् मेनिरे । तस्मिन् काले अकबरमहाशयः देहल्यां शासनं करोति स्म । यदा राणाप्रतापसिंहः अरण्ये वसति स्म तदा तस्य परिवारः महत्कष्टम् अनुबभूव । एकत्र सर्वदा वैर्याक्रमणशङ्का अन्यत्र आहाराभावात् पुत्रकलत्राणां कष्टपरम्परा अतीव वेदनाकरी बभूव । एकस्मिन् दिने राणाप्रतापस्य पत्नी अरण्यतृणजूर्णेन रोटिकाः सज्जीकृत्य सर्वेभ्यः किञ्चित् – किञ्चिद्भागं दत्तवती । स्वपुत्र्यै अपि रोटिकां दत्त्वा “तस्याः अर्धमेव खादित्वा अवशिष्टमर्धं परेद्युः भक्षणार्थं रक्ष ” इति सूचितवती । स्वप्रियदुहितुः परेद्युः आहारः लप्स्यते वा न वा इति शङ्कया प्रेममयी माता तथावोचत् । एतादृशं दारुणं कारुण्यपूर्णञ्च जीवनं सर्वेऽपि परिवारः व्यतीयाय । मेवाडराज्यस्य मुख्यसङ्घर्षः मुघलसेनया सह आसीत् । प्रतापस्य शासनावधौ ‘अकबर’इति नामकः मुधलसम्राट् आसीत् । प्रतापस्य २५ वर्षाणां शासनकाले अकबरस्य सेनया सह अनेकवारं युद्धम् अभवत् । मुख्यं युद्धं हल्दीघाटीस्थाने अभवत्, अतः एव एतत् ‘हल्दीघाटीयुद्धम्’ इति नाम्ना प्रसिद्धम् अस्ति । प्रतापः स्वजन्मस्थानमेव परित्यज्य गतवानिति तस्य शत्रवः परिहासरताः आसन् । इतः परं पुनः स योद्धम् आगच्छेदिति स्वप्नेऽपि ते न चिन्तयन्ति स्म । किन्तु महाराणाप्रतापः तेषां निरीक्षां मिथ्यां कृत्वा पराक्रन्तां स्वकीयराज्यसीमाम् अपूर्वेण पराक्रमेण स्वाधीनां कर्तुम् अभ्यपतत् ।