श्व: सर्वे छात्रा: विद्यालयपक्षत: पिकनिकनिमित्तं गमिष्यन्ति इति हेतो: सर्वे अतीव प्रसन्ना: आसन्। विद्यालये अद्य पिकनिकगमनाय सिद्धता अतीव उत्साहेन प्रचलति स्म। अध्यापक: आगामिपिकनिकयात्राविषये विविधसूचना: प्रसारयन्ति स्म। सर्वे बाला: अतीव प्रसन्ना: आसन्। शृण्वन्तु भो: शृण्वन्तु! श्व: अस्माकं कक्षाया: छात्रा: रक्तदुर्गं द्रष्टुं यास्यन्ति। प्राध्यापिका उक्तवती यत् सप्तमीकक्षाया: छात्रा: रक्तदुर्गं द्रक्ष्यन्ति ।
षष्ठीकक्षा भारतद्वारम् (इन्डियागेट) प्रति गमिष्यन्ति।
अष्टमीकक्षा प्रगतिक्षेत्रम् (प्रगतिमैदान) प्रति यास्यन्ति ।
नवमीकक्षा कुतुबस्तम्भं (कुतुबमीनार) प्रति प्रस्थाष्यन्ति।
दशमीकक्षा मुगलोद्यानं तथा प्रथमकक्षात: पञ्चमकक्षापर्यन्तं जन्तुशालां प्रति गमिष्यन्ति। भ्रमणानन्तरं बालोद्याने क्रीडावसर: अपि भविष्यति। अथ अन्यस्मिन् दिने प्रात: सर्वेषां कक्षानां छात्रा: स्व-स्व गन्तव्यस्थानानि प्रति प्रस्थितवन्त:।
सप्तमीकक्षाया: कक्षाया: छात्रा: रक्तदुर्गस्य भ्रमणं कुर्वन् बालोद्यानं समागता:। बालोद्याने समागत्य सर्वे बाला: क्रीडाया: कार्यक्रमं निर्मितवन्त:।
एकत: बालका: क्रिकेटफुटबॉलयो: वस्तुनि अधिग्रहितवन्त: अपरत: बालिका: बैडमिन्टनलूडोक्रीडनकानि अधिग्रहितवत्य:। पश्यत: एव क्षणाभ्यन्तरे सर्वे बाला: द्विधा विभक्ता: अभवन् केचन क्रीडायां भागं गृहीतवन्त: अपरे चक्रीडादर्शनानन्दे संलग्ना:।
पिकनिकसमये उद्याने केचन बालका: लूडो केचन् च कञ्चाक्रीडायां रता: आसन्। अन्ये केचन समूहेषु उपविश्य वार्लालापं कुर्वन्ति स्म।
वीरसमूहः लारासमूहः लूडोपत्रके गुटिकान् क्षिपन्ति स्म। समूहद्वयमेव गुटिकायां मनोऽभिलषितान् अङ्कान् प्राप्तुं तथा जयं प्राप्तुम् आशान्विता: आसन्।
वीर: – आगामिवारं गुटिकाक्षेपणे सति अष्टौ अङ्का: आगच्छेत् चेत् अस्माकं समूह: जेष्यति।
लारा – अस्माकं कृते तु केवलं चत्वार: एव पर्याप्त: ।
पार्श्वे एव समुपस्थिता रीमा एकस्यां कुप्यां कञ्चाचतुष्टयमादाय उपविष्टा आसीत् यस्यां एकत: चत्वारि यावत् संख्या: अंकिता: आसन्।
रीमा – राहुल! किं त्वम् अदृष्ट्वा एव चत्वारि-अंकिता: कञ्चा: निष्काषयितुं अर्हति किल?
नीता एकस्यां कुप्यां रञ्जितं कन्दुकं धृत्वा उपविष्टा आसीत्। रामस्य कृते रञ्जितं कन्दुकम् आवश्यकं आसीत्। स: कुप्या: कन्दुकमेकम् आदाय क्रीडितुम् आरब्धवान्।
सर्वे स्व-स्वक्रीडायां संलग्ना: आसन् । तदैव सहसा गगनं मेघाच्छन्नं जातम्।
अध्यापक: कथयितुम् आरब्धवान् वृष्टि: संभाविता वर्तते अत: अस्माभि: गृहपत्यागमनाय सिद्धता करणीया।
आदिनं आनन्दमनुभूय सर्वे छात्रा: लोकयाने समारूढा: अभवन् ।
सायं पञ्चवादने सर्वे विद्यालयं प्रत्यागता:। स्थानीयभ्रमणयात्रानन्तरं सर्वे छात्रा: अतीव प्रसन्ना: आसन्।











