सर्वकारेण संसदः वित्त-सङ्कल्पना-सत्रात् पूर्वम् विगत एकविन्शति दिनाङ्के नवदिल्ल्यां, संसदः वित्तसङ्कल्पनासत्रात् पूर्वम् सर्वदलीयसमागमः आहूतः। सत्रे संसदः द्वयोः सदनयोः सुचारुरूपेण कार्य- सञ्चालनार्थं सर्वकारेण सर्वेभ्यः राजनैतिकदलेभ्यः सहयोगः याचितः। वित्त-सङ्कल्पना-सत्रं द्वाविन्शति दिनाङ्के सोमवासरात् समारभ्य आगामिमासस्य द्वादश-दिनाङ्क यावत् प्रचलिष्यति। महा-वित्तसङ्कल्पना-प्रपत्रं मङ्गलवासरे प्रस्तुतम् आसीत्। एतत् खलु नरेन्द्रमोदि-सर्वकारस्य तृतीयकार्यकालस्य प्रथमं वित्त- सङ्कल्पना-सत्रम् आसीत् । विगते मासे संसदः सदनयोः संयुक्तोपवेशनं सम्बोधयन्ती राष्ट्रपतिः द्रौपदी-मुर्मुः अकथत् यत् एतत् वित्तसङ्कल्पना-प्रपत्रं सर्वकारस्य दूरगामि- नीतीनां भविष्यत्कालिकोद्देश्यानां च प्रभाविप्रमाणं भविष्यति । सभायां उपस्थितेषु नेतृषु केन्द्रीय-मन्त्री राजनाथ सिंहः, किरेन रिजिजुः, अर्जुन-राम-मेघवालः, जे.पी नड्डा, चिराग पासवानः, रामदास-अथवले, तथा कांग्रेस-नेता जयराम रमेशः तथा गौरव गोगोई, एन्.सी.पीति दलस्य नेता प्रफुल्ल पटेलः, डी.एम. के नेता टी.आर. बालू तथा तिरुचि सिवा, आम- आदमी-पार्टीति दलस्य नेता संजय सिंहः, ए.आई.एम.आई.एम-सांसदः असदुद्दीन ओवैसी आदयः सम्मिलिताः आसन् ।











