गृह-मन्त्रिणा अमितशाहेन विगत चतुर्दश दिनाङ्के इन्दौर जनपदे ‘एक-पेड-मों के नाम’ इत्यस्य अभियानस्य समारम्भः कृतः। ध्यातव्यम् अस्ति यत् इन्दौर जनपद-द्वारा एकस्मिन्नेव दिवसे एकादश-लक्ष-वृक्षाणाम् रोपणं कृत्वा वैश्विक कीर्तिमतः निर्मितः । श्रीअमितशाहः उक्तवान् यत् इन्दौर-जनपदः एकेन स्वच्छ-नगरेण सहैव एकं हरित-नगरम् अपि भवति। प्रधानमन्त्रिणा श्री-नरेन्द्र-मोदिना कथितं यत् अस्माभिः यूनां कृते हरित-पर्यावरणस्य सौविध्यम् दातव्यम्। एतदर्थम् एव अस्माभिः देशे पञ्चविंशत्यधिक-द्विसहस्राब्द-पर्यन्तं पेट्रोल इत्यस्मिन् विंशति प्रतिशतपरिमितं एथेनाल संयोजनस्य निर्णयो गृहीतः अस्ति। सर्वकारेण ‘जलवायु-परिवर्तन-कोष’ इत्यस्य संघटनस्य आरम्भोऽपि कृतः। गृहमन्त्री प्रोक्तवान् यत् देशे ‘पर्यावरण-विभागस्य’ स्थापना सर्वप्रथमं गुजरात राज्ये प्रधानमन्त्रिणा श्रीमोदिना एव कृता नासीत्। मन्त्री अमितशाहः कथितवान् यत् मध्यप्रदेशः भारतस्य श्वासकोषः वर्तते। अत्र एकविंशति प्रतिशत-परिमितं वनाच्छादित क्षेत्रम् अस्ति। मध्यप्रदेशः पर्यटन-क्षेत्रेऽपि नूतन- मानकानां स्थापनां करोति । कार्यक्रमोऽयं मुख्यमन्त्रिणा डॉ-मोहन यादव इत्यनेनापि सम्बोधितः। अस्मिन् अवसरे नैकाः केन्द्रीय-मन्त्रिणः, मन्त्रिणः, सांसदाः, जनप्रतिनिधयः च सम्मिलिताः आसन्।











