भीमसेनः आञ्जनेयः च (बाल कथा)

एकदा पाण्डवाः वनवासनिर्बन्धिताः आसन्। ते रमणीयेषु काननेषु निवासम् अकुर्वन् । एकदा द्रौपदी वायुना आनीतं सुन्दरं पुष्पम् एकं अपश्यत्। तस्य पुष्पस्य गन्धम् आघ्राय अमुद्यत्। ततः सा द्रौपदी पतिं भीमसेनम् अवदत्, एतादृशानि रमणीयानि पुष्पाणि बहूनि मह्यम् आनयतु इति। भीमसेनः अहमेव लोके बलवान् इति गर्वयुक्तः । सः द्रौपद्यै पुष्पाणि आनेतम उत्साहेन प्रातिष्ठत । रमणीयानि पुष्पाणि बहूनि मह्यम् आनयतु इति। भीमसेनः अहमेव लोके बलवान् इति गर्वयुक्तः । सः द्रौपद्यै पुष्पाणि आनेतुम् उत्साहेन प्रातिष्ठत । सः बहुत्र अन्विष्य अन्ते एकस्मिन् उद्याने तानि पुष्पाणि दूरात् ऐक्षत। यदा उद्यानं प्राप्तुम् सः उद्युक्तः तदा मार्गे शयानम् एकं कपिम् अपश्यत्। तस्य कपेः पुच्छः भीमसेनस्य मार्ग प्रत्यरोधयत्। गर्वी भीमसेनः तस्य समीपम् गत्वा अरे! दुष्टवानर ! उत्तिष्ठ । तव पुच्छः मार्ग प्रतिरोधयति। अहम् एतेन मार्गेण गन्तुम् इच्छामि इति अवदत् । तदा सः वानरः अवदत् भोः अहम् अतीव वृद्धः अत्र वने निवसामि । अतः उत्थातुं मम शक्तिः नास्ति । अतः त्वमेव मम पुच्छम् अपसार्य गच्छ इति। तदा अत्यन्तं क्रुद्धः भीमसेनः पुच्छं गृहीत्वा एतं वानरं आकाशे भ्रामयित्वा यमलोकं प्रापयामि इति उत्क्त्वा वानरस्य लाङ्गूलं स्वीकर्तुम् उद्युक्तः ।
किन्तु बहुधा प्रयत्नं कृत्वा अपि सः पुच्छस्य दूरीकरणे पराजितः समभवत्। एतेन भीमस्य गर्वभङ्गः जातः। सः वानरं प्रति कपिश्रेष्ठ ! महता प्रयत्नेन अपि भवतः पुच्छं चालयितुमपि अहम् अशक्तः भवामि । भवान् न सामान्यः कपिः इति प्रतिभाति। कृपया वदतु भवान् देवः वा गन्धर्वः वा सिद्धपुरुषः वा इति प्रार्थयत। सः कपिः शान्तः उत्तरं प्रायच्छत्, भोः अहमेव आञ्जनेयः। अहमपि वायुपुत्रः इति कारणात् तव भ्राता भवामि ।
तव गर्वभङ्गं कर्तुमेव मार्ग प्रत्यरोधयम् इति । ततः आञ्जनेयः भीमं बहुभिः आशीर्भिः अन्वगृह्णात् ।