विश्वसंस्कृतदिवसस्य अवसरे केसीई संस्थायाः स्वामी विवेकानंदः कनिष्ठः महाविद्यालये श्री आद्यशंकराचार्य संस्कृतस्तोत्रपाठप्रतियोगितायाः आयोजनम्।

जलगांव : स्वामी विवेकानन्द: कनिष्ठः महाविद्यालयःजलगांवनगरे एम.जे.(स्वायत्तः) महाविद्यालयद्वारा महानगरस्य शालेयस्तरीय छात्राणां कृते *श्री आद्यशंकराचार्य: संस्कृतस्तोत्रपाठप्रतियोगिता विश्वसंस्कृतदिवसस्य अवसरे आयोजिता अस्ति । केसीई संस्थायाः मा. अध्यक्ष: श्री.प्रज्ञावन्तपूज्यश्री नन्दकुमारःबेण्डाले इत्यस्य शुभाशीर्वादैः तथैव महाविद्यालयस्य प्रधानाचार्यः डाॅ स. ना. भारंबे महोदयस्य मार्गदर्शनेन श्रावणपूर्णिमायाः शुभदिनावसरे उक्तप्रतियोगिता ८, ९, तथैव १० कक्षाणां छात्राणां कृते अस्ति। तथा च अस्मिन् स्पर्धायां २२ विद्यालयेभ्यः ६०० तः अधिकाः छात्राः भागं गृहीतवन्तः। अष्टमश्रेण्यां मधुराष्टकम्, नवमश्रेण्यां पाण्डुरङ्गाष्टकम्, दशमश्रेण्यां शिवताण्डवस्तोत्रं च छात्रैः दलस्वरूपे पाठितं भविष्यति। उक्तप्रतियोगितायाः कृते प्रथमपुरस्कारः ₹701, द्वितीयपुरस्कारः ₹501, तृतीयपुरस्कारः ₹301, तथा च प्रत्येकं समूहस्य/वर्गस्य कृते ₹201-प्रत्येकस्य द्वौ प्रोत्साहनपुरस्कारौ, सर्वेभ्यः प्रतिभागिभ्यः प्रमाणपत्रं प्रदत्तं भविष्यति, पत्रकारसम्मेलने अद्य महाविद्यालयस्य नवीनसम्मेलनभवने आयोजितः प्राचार्यः डॉ. एन भारम्बे महोदयेन उपस्थिताः वृत्तनिवेदकानां वार्तां प्रदत्तं। अवसरेsस्मिन् उपप्रधानाध्यापिका श्रीमती करूणा सपकाले महोदया, पर्यवेक्षकः प्रा. आर. बी. ठाकरे महोदयः समन्वयकौ प्रा. स्वाती बऱ्हाटे ,प्रा. उमेशः पाटील च स्पर्धा संयोजकःप्रा. अर्जुनः शास्त्री तथैव प्रा. दिनेशः महाजन:, प्रा. संदीप: वानखेड़े, प्रा. संदीप: गवहाले, प्रा. विनोद पावरा, प्रा . गुणवंतझ वंजारी, प्रा. प्रमोद: भोई, प्रा महेन्द्रः राठोड, प्रा. सूर्यकांत: बोइनवाड आदयःउपस्थिताः आसन् ।