मण्डूकस्य दुस्साहसः (बाल कथा)

कस्मिंश्चित् वने कश्चन मूषकः वसति । तस्य मित्रम् एकः मण्डूकः ।
मूषकः भूमौ एव वसति । मण्डूकः सर्वदा जले भवितुम् इच्छति ।
मण्डूकः मूषकं वदति, भोः मित्र ! भवान् मया सः जले भवतु ! नैव अहं जलं न इच्छामि एव – मूषकः वदति।
मण्डूकः चिन्तयति। अहं कथञ्चित् मूषकं जलं प्रति नयामि।
एकस्मिन् दिने यदा मूषकः निद्राति तदा मण्डूकः मूषकस्य पादं स्वस्य पादेन सह बध्नाति। अनन्तरं नदीं प्रति धावति। मण्डूकः जले कुर्दति। दुर्भाग्यः मूषकः अनिच्छया जले प्रविशति। मण्डूकः तरति। संतोषेण जले निमज्जति।
मूषकः तु श्वास्मेव स्वीकर्तुं न शक्नोति।
किञ्चित् कालान्तरं मूषकः मरणं प्राप्नोति। सः मरणात्परं जले प्लवते। मूर्खः मण्डूकः चिन्तयति , एषः मूषकः निर्बलः अस्ति।
मम मित्रं भवितुं न योग्यः। तदा एकः गरुडः आकाशे उद्दयनं करोति।
सः मूषकः पश्यति। झटिति अधः आगत्य , मूषकं गृव्हाति। पुनः उपरि उद्दयनं करोति।
मूषकस्य पादः तु मण्डूकस्य पादेन सह बद्दः अस्ति। तस्मात् मण्डूकः अपि निगृहीतः भवति।
तदा मण्डूकः चिन्तयति , अहो ! अहमेव मुर्ख्तां कृतवान्।
अहं अपि जले संतुष्टः आसम्।
मम कारणात् सः अपि मृतः। अहं अपि मरणं प्राप्नोमि।
सर्वे स्वस्य स्थाने तिष्ठति चेत् सुरक्षिताः भवन्ति , अतः तदेव उचितम्।
उक्तं च – स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः। इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्॥