अशेषे देशे गोवर्धन पूजनम् अमान्यते। उत्तराखण्ड-चारधामः उत्तरकाश्याम् अन्नकूटस्य अवसरे अद्य उत्तराखण्डस्य चतुर्षु धामसु एकस्य गङ्गोत्री धाम्नः कपाटः शीतकालाय पिहितः। अद्य रात्रौ चतुर्दशनिमेषाधिक द्वादश वादने शुभ-अभिजीत-मुहूर्त-समये विशाल भक्तानां समूहस्य उपस्थितौ मन्दिरस्य द्वाराणि औपचारिकरूपेण पिधास्यन्ते। अस्मिन् अवसरे मन्दिरं विविधपुष्पैः ‘अलङ्कृयते। अस्मिन् वर्षे एतावता अष्टलक्षाधिकाः तीर्थयात्रिणः उत्तरकाशीमण्डलस्य गङ्गोत्रीधामस्य यात्रां कृतवन्तः। सहैव रुद्रप्रयागस्य केदारनाथधाम्नः, उत्तरकाशी यमुनोत्रीधाम्नः च द्वाराणि पिधातुं सज्जतापि समारब्धा। श्वः भर्तृ द्वितीयायाः-दिने द्वयोः धाम्नोः द्वाराणि पिहितौ भविष्यतः। रुद्रप्रयागमण्डले बाबाकेदारस्य दर्शनार्थं बहुशः दर्शनार्थिनः निरन्तरं गच्छन्ति । मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन उक्तं यत् सुचारुः, सुरक्षितः, सुव्यवस्थितः च चारधामयात्रा सर्वकारस्य सर्वोच्चप्राथमिकता अभवत्। केदारनाथधामं दिव्यं भव्यं च कर्तुं सर्वकारः समर्पितः अस्ति। भक्तानां सुगमयात्रायै क्षेत्रस्य अर्थव्यवस्थां वर्धयितुं च वयं निरन्तरं कार्यं करिष्यामः। केदारनाथस्य तीर्थपुरोहितसमाजः तथा स्थानीयव्यापारिणः मुख्यमन्त्री पुष्करसिंहधामी प्रति यात्रायाः सफलतया सुचारुतया च संचालनाय आभारं प्रकटितवन्तः। केदारसभा अध्यक्ष राजकुमार तिवारी उक्तवान् यत् मुख्यमन्त्री मार्गदर्शिकायाः विशेषप्रयत्नेन च अस्मिन् वर्षे यात्रा अतीव सफलतया सम्पादिता। चारधामयात्रां भव्यं दिव्यं च कर्तुं धामीसर्वकारस्य प्रयत्नाः अत्यन्तं प्रशंसनीयाः सन्ति।











