सीएसयू भोपाल-परिसरे त्रिदिवसीया अनुसन्धानोपकरणकार्यशाला सुसम्पन्ना

संवादक:-प्रवेशकुमारशुक्ल: ,भोपालम्

केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपाल -परिसरे शिक्षाशास्त्रविद्याशाखायाम् कार्तिकशुक्लैकादशीत: कार्तिकशुक्लत्रयोदशीपर्यन्तं त्रिदिवसीया इयमनुसन्धानोपकरणनिर्माणकार्यशाला आसीत्।
आदौ सुरभारतीसमुपासनेन सम्पूर्तिसत्रस्यारम्भ: अभवत्। वैदिकमङ्गलाचरणं राहुलतिवारि, तदन्तरं समुपस्थितान् सर्वान् आचार्यान् छात्राञ्च शिक्षाशास्त्रविद्याशाखाया: ज्येष्ठाचार्या: कार्यक्रमस्य समन्वयका: प्रो० सोमनाथसाहुमहोदयै: निजवाक्पुष्पै: स्वागतं एवञ्च प्रतिवेदनं प्रस्तुतवन्त:। सभाया: सभाध्यक्षा: परिसर-सहनिदेशका: प्रो० नीलाभतिवारिमहोदया: उक्तं यत् शैक्षिकानुसंधाने
उपकरणानां प्रयोग: कथं कर्तव्य: इति प्रथमं चरणं भवतीति। अंकुरकुमार:, पुष्करतिवारी, अपूर्वा उपाध्याय कार्यक्रमस्यानुभवकथनं अकुर्वन्। कार्यशालायामागता: विषयविशेषज्ञा: डा० प्रभाकरपाण्डेया: भणितं यत् साम्प्रतं AI मनोमयकोशं लङ्घयित्वा विज्ञानमयकोशं स्पृशति।पञ्चकोशाणां विषये च प्रबोधिता:। प्रो० अशोककच्छवाहा, डा० कृष्णकान्ततिवारी, डा० गोविन्दसरकार, डा० ललितमोहनपन्तोला, डा० गोकुलानन्दतिवारी, डा० वरुणसौरभपोखरियाल, डा० कनकवल्ली प्रभृतया: आचार्या: समुपस्थिता: आसन्। डा० पवनकुमारमहोदया: सर्वेषामतिथीनां साधुवादा: ज्ञापितवन्त:।