चण्डीगढनगरे नूतन-आपराधिकविधीनां सफलकार्यन्वयनं

प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन विगत अस्य मासस्य तृतीये दिनाङ्के चण्डीगढनगरे नूतन-आपराधिकविधीनां सफलकार्यन्वयनं राष्ट्राय समर्पितम्। अस्मिन् अवसरे केन्द्रीयो गृहमन्त्री सहकारितामन्त्री च अमितशाहः अपि उपस्थितः आसीत् । आयोजनं सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् नूतनानां आपराधिकविधीनां कार्यान्वयनम् अस्माकं संविधानेन अस्माकं देशस्य नागरिकानां कृते ये आदर्शाः परिकल्पिताः तेषां पूर्तये दृढपदं वर्तते।
प्रधानमन्त्रिणा उक्तं यत् एते नूतनाः विधयः भारतं औपनिवेशिकविधिविचारेभ्यः मुक्तं करिष्यन्ति। चण्डीगढेः नूतनानां आपराधिकविधीनां सफलकार्यन्वयनार्थ पञ्जाब-हरियाणा- उच्चन्यायालयस्य विधिवेतृणां चण्डीगढ-न्यायालय-सदस्यानां च धन्यवादं अभिनन्दनं च दत्तवान्।
अस्मिन् अवसरे केन्द्रीयमन्त्री अमितशाहः अवदत् यत् त्रयः नूतनाः आपराधिकविधयः सम्पूर्ण देशे वर्षत्रयाभ्यन्तरे कार्यान्विताः भविष्यन्ति। श्रीशाहः अवदत् यत् इमे विधयः भारतीयैः निर्मिताः, भारतीयसंसदि, जनेभ्यः न्यायं प्रदातुं च निर्मिताः सन्ति। ततः पूर्वं मोदीमहोदयः शाहमहोदयः च चण्डीगढनगरे परिवर्तनकारीणां नवीनानाम् आपराधिकविधीनां त्रयाणां भारतीयन्यायसंहिता, भारतीयनागरिकसुरक्षासंहिता, भारतीय माध्याधिनियमानां च विषये एकां प्रदर्शनीं द्रष्टुम् अपि गतवन्तौ ।