वार्ताहरः- डॉ. मूलचन्द्रशुक्लः
रामनगरम्।पीएनजी राजकीय- स्नातकोत्तर-महाविद्यालय- रामनगरद्वारा प्राचार्य प्रो.एम.सी.पाण्डे वर्यस्य दिशानिर्देशने मदमुक्ति-अभियानं सञ्चाल्यते। मदमुक्तभारत- अभियानस्य व्यसनमुक्त- उत्तराखण्ड-अभियानस्य च सन्दर्भे महाविद्यालयएण्टी ड्रग सेल इत्यस्य संयोजिका डॉ.जया भट्ट द्वारा विद्यालयस्य विद्यार्थिभ्यः व्यसनमुक्त-अभियानार्थं जागरूकः क्रियते। महाविद्यालयस्य एण्टी ड्रग सेल द्वारा रामनगरस्य एमपी हिन्दू इण्टर कालेज इत्यत्र जागरूकता- कार्यशालायाः समायोजनं विहितम्। जागरूकताकार्यशालायाः प्रथम- सत्रे नोडल अधिकारी डॉ.जया भट्टः द्वादशकक्षायाः विद्यार्थिभ्यो विविधोदाहरणैः प्रोजेक्टर- माध्यमेन व्यसन-पदार्थादिभ्य उत्पन्न- कैंसर इत्यादिभिः,मार्गादिषु सङ्घट्टनमित्यादिभिः (दुर्घटना), आर्थिकहानि-इत्यादिभिश्च सह तेभ्यो विभिन्नदुष्परिणामादिभ्यः परिचिनोति। अग्रे तया युवानः व्यसनपरकपदार्थादिभ्यः आत्मानं दूरीकृत्य सशक्त-आत्मबलेन जीवननिर्वाहार्थं प्रेर्यन्ते। महाविद्यालयस्य योगवैकल्पिक- चिकित्साविभागीयः प्राध्यापकः डॉ.नितिन ढोमने महोदयः सुपर ब्रेन योग द्वारा सक्षम-आत्मबल- निर्माणार्थं छात्राछात्रान् शिक्षयति। कार्यशालायाः द्वितीयसत्रे दशमकक्षायाः विद्यार्थिनः व्यसनमुक्त-अभियानार्थं प्रशिक्षिताः।कार्यशालायां प्रश्नोत्तरमाध्यमेन मद-अकरणाय विद्यार्थिनः जागरूकीकृताः। अस्मिन्नवसरे राष्ट्रियसेवायोजनायाः वरिष्ठ- कार्यक्रम-अधिकारी डॉ . सुरेश चन्द्रा, इतिहासविभागस्य च डॉ.नरेश कुमारः तत्र उपस्थतौ आस्ताम्।तत्र समेपि विद्यार्थिनः मदमुक्ति इत्यस्य शपथं नीतवन्तः। एमपी हिन्दू इण्टर कालेज इत्यस्य प्रधानाचार्यः संजीव कुमार शर्मा वर्येण व्यसनमुक्तिसन्दर्भे स्ववक्तव्यं प्रदाय धन्यवादो विज्ञापितः। स्ववक्तव्ये तेन समस्त-शिक्षकाः विद्यार्थिनश्च ई- शपथग्रहणाय प्रेरिताः।











