आध्यात्मिक सङ्गमनगरे प्रयागराजे महा-कुम्भ-मेलायां देशस्य विभिन्नेभ्यः क्षेत्रेभ्यः श्रद्धालवः तीर्थयात्रिण्श्च समागताः । सम्प्रति यावत् द्विसप्ततिः लक्षोत्तर सप्तकोटितोप्यधिक श्रद्धालवः महाकुम्भे भागं अगृह्णन्। सममेव त्रिवेणीसङ्गमे स्नानं च अकुर्वन्। सङ्गमं विहाय महाकुम्भ-मेलया अपि अशेषे हि उत्तरप्रदेशे पर्यटनं वर्धिता अस्ति। महाकुंभे विभिन्नेभ्यः देशेभ्यः श्रध्दालवः अधुना उत्तरप्रदेशस्य अन्येषु तीर्थस्थानेषु जनसम्मर्दं कुर्वन्ति। अयोध्या, वाराणसी, विन्ध्याचलशृङ्गवेपुर, चित्रकूट इत्यादिषु पवित्रस्थानेषु पर्यटकानां संख्या तीव्ररूपेण वर्धिता अस्ति।
आध्यात्मिक-सङ्गमनगरे प्रयागराजे श्रद्धालवः तीर्थयात्रिणश्च अधुना आकाशवाण्याः महाकुम्भसम्बद्धाः कुम्भवाणी- वार्ताः सार्वजनिक-सम्बोधन-प्रणाल्याः माध्यमेन श्रोतुंशक्नुवन्ति। दशनिमेषात्मकीयाः इयं कुम्भवाणीवार्ताः प्रातःकाले सार्धाष्टवादने मध्याह्ने सार्ध-द्विवादने अपरत्र सायंकाले साधष्टि वादने प्रसारयन्ते । अस्या कुम्भवाणी-नामाख्यायाः वाहिन्याः शुभारम्भः अस्य मासस्य दशमे दिनाङ्के प्रयागराजे उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगिआदित्यनाथेन केन्द्रीय- सूचनाप्रसारण राज्यमन्त्रिणा डॉ एल्-मुरुगन इत्यनेन च कृतः। महाकुम्भाय समर्पिता इयं कुम्भवाणी फरवरीमासस्य षड्विंशं दिनाङ्क यावत् प्रचलिष्यति ।
शुभावसरेऽस्मिन् रक्षामन्त्री राजनाथसिंहः अपि सङ्ङ्गमे पुण्यावगाहनं समाचरितवान्। पवित्रास्नानान्तरं कृतार्थः अनुभूयते मया इत्यपि सः उक्तवान्। अग्रे च कथितवान् यत् इदं हि खलु भारतीयसांस्कृतिक-सनातनधर्मस्य आध्यात्मिक अनुभूतेः च पवित्रपर्व विद्यते इति
महाकुम्भ-अग्निकाण्डम्-
प्रयागराजे महाकुम्भमेलापके सेक्टर् ऊनविंशतिः इत्यत्र अद्य अग्निकाण्डम् दुर्घटितम्। येन क्षेत्रात् धूमस्य विशालाः समूहाः दृष्टाः। अस्मिन् अग्नि कांडे एकः जनः व्रणितः यस्मै उपचाराय चिकित्सालयं प्रेषितं वर्तते। प्रशासनं तत्क्षणम् एव साहाय्योद्धार- कार्यक्रमं सुनिश्चितं कुर्वदस्ति। अस्थायीनिवासस्थले शयनशिबिरे इत्यत्र भोजनं निर्माणावधौ अग्निः प्रज्वलितः इति कधूयते । सम्प्रति अग्निः नियन्त्रणे अस्ति। अधुना, सर्वं पूर्ववत् सामान्यम् अस्ति।











