उत्तराखण्डे विधानसभायां मन्त्रिणां विधायकानां च संस्कृतेन ऐतिहासिकं सम्भाषणं

विशेषकार्यक्रमस्य आयोजनं विधानसभाध्यक्षा ऋतुभूषणखण्डूडी तथा च मुख्यमन्त्रीपुष्करसिंहधामी इत्यनयोः विशेषनिर्देशानुसारं सम्पन्नमभवत्

वार्ताहरः- कुलदीपमैन्दोलां।

उत्तराखण्डराज्यस्य द्वितीयराजभाषाया: संवर्धनाय च संरक्षणाय विधानसभाभवने द्वितीयवारं पञ्चतमसदनसत्रे मन्त्रिणां ऐतिहासिकः संस्कृतसम्भाषणकार्यक्रमः सम्पन्नः अभवत् । अस्मिन् विशेषसंवेशने राज्यस्य द्वितीयराजभाषा-स्वरूपेण संस्कृतभाषायाः प्रोत्साहनार्थं सर्वे माननीयाः मन्त्रिगणा: विधायकाः च सरलसंस्कृतसंभाषणस्य अभ्यासं कृतवन्तः। येन विधानसभायाः वातावरणं संस्कृतमयं जातम्।
अस्य विशेषकार्यक्रमस्य आयोजनं विधानसभाध्यक्षा ऋतुभूषणखण्डूडी तथा च मुख्यमन्त्रीपुष्करसिंहधामी इत्यनयोः विशेषनिर्देशानुसारं सम्पन्नमभवत्। अस्य आयोजनस्य मुख्योद्देश्यः संस्कृतभाषायाः संवर्धनं तथा सर्वकारीयकार्येषु तस्याः उपयोगः वर्धमानः करणीयरूपेण स्थापयितुं प्रयासः वर्तते। संस्कृतशिक्षाविभागस्य सहयोगेन संस्कृताकादम्याः सहकारेण मन्त्रिणः विधायकाः च सरलसंस्कृतसम्भाषणस्य प्रशिक्षणं प्राप्तवन्तः।
अस्मिन् सन्दर्भे विधानसभाध्यक्षा ऋतुभूषणखण्डूरी उवाच— “संस्कृतभाषायाः संरक्षणं संवर्धनं च भारतस्य विश्वगुरुपथं प्रदर्शयति। अस्मत्सर्वकारेण संस्कृतभाषायै द्वितीयराजभाषारूपेण सम्मानं दत्तमस्ति। अस्माभिः अपि एषा भाषा प्रतिदिनजीवने उपयोगं कर्तव्या।”
शिक्षामन्त्री तथा संस्कृतशिक्षामन्त्री डॉ. धनसिंहरावत: अपि उक्तवान् यत्— “राज्ये १३ जनपदेषु १३ ग्रामाः संस्कृतग्रामरूपेण घोषिताः। तत्र प्रशिक्षकाः नियुक्ताः सन्ति ये ग्रामीणजनानां कृते सरलसंस्कृतसम्भाषणस्य शिक्षणं दास्यन्ति।” संस्कृतशिक्षाविभागस्य अधिकृतानां प्रशंसां कृत्वा तान् शुभाशंसाः अपि दत्ताः।
अस्मिन् महत्वपूर्णकार्यक्रमे माननीया: विधायकगणा:, कैबिनेटमन्त्री सुबोधः उनियाल:, सौरभः बहुगुणा, विधायकः बृजभूषणः गैरोला, सविता कपूर:, उमेशकुमारः, रेनूबिष्ट:, सचिवः दीपकः गैरोला, निदेशकः आनन्दः भारद्वाज:, उपनिदेशकः डॉ. चण्डीप्रसादः घिल्डियाल:, संस्कृताकादम्याः सचिवः डा. वाजश्रवा आर्य:, पंकजः पालीवाल: आचार्य: घणेशफोन्दणी इत्यादयः गणमान्यव्यक्तयः उपस्थिताः आसन्। सम्भाषणस्य संवादं संस्कृताकादम्या: शोधाधिकारी हरीशगुरुरानी कारितवान्।
अयं कार्यक्रमः उत्तराखण्डसर्वकारस्य संस्कृतस्य संरक्षणे संवर्धने च दृढसंकल्पं दर्शयति। एतेन प्रयासेन भावीसन्ततय: स्वसंस्कृतिकसमृद्धौ सन्नद्धाः भविष्यन्ति।