इसरो – दश-टन-भारमितं प्रणोदक-मिश्रकं

एकस्य प्रमुखप्रौद्योगिकस्य अविष्कारस्य अन्तर्गतं, भारतेन “सालिड् राकेट् मोटर” इत्यस्य कृते विश्वस्य बृहत्तमं दश-टन-भारमितं प्रणोदक-मिश्रकं विकसितम् अस्ति। एतत् मिश्रकं भारतीयान्तरिक्षानुसन्धान-सङ्घटनस्य सतीश धवन-अन्तरिक्ष-केन्द्रेण बेङ्गलुरु-नगरे केन्द्रीय-विनिर्माण-प्रौद्योगिकी संस्थानस्य सहयोगेन विनिर्मितम् अस्ति । मिश्रकस्य भारः पञ्चाशदधिक-एकशत-टनमितः वर्तते एवञ्च एतत् मिश्रकं सप्त-दशांशोत्तर अष्ट-मीटर-परिमितं यावत् उन्नतम् अस्ति सहैव एतत् चत्वारि दशांशोत्तर-पञ्चमीटरमितं यावत् दीर्घं, त्रीणि दशांशोत्तर-त्रिमीटरमितं यावत् विस्तृतं वर्तते। भारतीयान्तरिक्षानुसन्धान-सङ्घटन-कारणेन पुनः एकदा अस्माकं देशः गौरवास्पदं क्षणम् अवाप्नोत् । दशटनमितस्य उर्ध्वाधर मिश्रकस्य उत्पादनं भारतस्य वर्धमानप्रौद्योगिक्याः, कुशलतायाः, आत्मनिर्भरतायाः नवाचारस्य च प्रतिबद्धतायाः प्रमाणं वर्तते।