महाराष्ट्रस्थ वर्धायां स्थित:”महात्मागांधी- अंतरराष्ट्रीय हिंदीविश्वविद्यालये केन्द्रीयसंस्कृतविश्वविद्यालयेन सञ्चालितस्य संस्कृताध्ययनकेन्द्रस्य परतया पुस्तकवितरण कार्यक्रम: !

वार्ताहर: – शिवम त्रिपाठी

महत्हर्षास्पदं यत् केन्द्रीयसंस्कृतविश्वविद्यालयेन आयोजित: संस्कृताध्ययनकेंद्रस्यान्तर्गते ” महात्मागांधी-अंतरराष्ट्रीय हिंदीविश्वविद्यालये पुस्तकवितरण कार्यक्रम: अभवत्
कार्यक्रमस्य आरम्भ: मङ्गलाचरणै: अभवत् !
अनन्तरं अतिथिनां , अध्यापकानां परिचयप्रास्ताविके केन्द्रप्रशिक्षकै: शिवममहोदयै: कारितम् !
अनन्तरं संस्कृताध्ययनकेन्द्रस्य ये प्रमाणपत्रीय एवं दक्षताप्रमाणपत्रीय पाठ्यक्रमस्य छात्रा: आसन् तेषां कृते अतिथिभि: द्वारा पुस्तकं प्रदत्तम् !
एवं कार्यक्रमेऽस्मिन् विशिष्टातिथि: रुपेण उपस्थिता “महात्मागांधी अंतरराष्ट्रीयहिंदीविश्वविद्यालयस्य हिन्दी एवं साहित्य तुलनात्मकविभागस्य वरिष्ठाचार्या: एवं विभागाध्यक्षमहोदय: प्रो०अवधेशकुमारशुक्लवर्या: उपस्थिता: महोदयै: उक्तं यत् संस्कृतं न केवलं एका भाषा अपितु मानवजीवनस्य संस्कृति-सभ्यता इत्यनयो: आधारशिला वर्तते । यतोऽहि संस्कृतस्य प्रभाव: अस्माकं दैनन्दिनिकार्यव्यवहारे स्पष्टतया परिलक्ष्यते एवञ्च संस्कृते अस्माकं संस्कृति: ,परम्परा ,ज्ञानबोध: इत्येषां आधारभूतं विद्यते अत: एतस्य संरक्षणार्थं अस्माकं एवं दायित्वं अस्ति
यत् प्रत्येकं जनानां संस्कृतेन व्यवहारं कुर्यु: इति !
इत्यनेन वचनेन‌, अभिप्रेरणया अस्मान् सर्वान् छात्रान् आविर्भूतं कृतवान् !
एवञ्च अन्ये उपस्थिता: गणमान्या: संस्कृतविभागस्य आचार्या डॉ० जगदीशनारायणतिवारि महोदय: , डॉ० वागीशशुक्लमहोदय: एवं संस्कृताध्ययनकेंद्रस्य संयोजक: डॉ० प्रदीपमहोदय च उपस्थिता: आसन्
अनन्तरं धन्यवाद ज्ञापनाय संस्कृतविभागस्य विभागीय आचार्य: डॉ०वागीशमहोदयै: स्वमृदुवचनेन मुख्यातिथिनां , अध्यक्षानां , प्राध्यापकानां , छात्रछात्राणां च एक तन्त्रेण धन्यवादस्ववचांसि कृत: ।
एवञ्च अस्य कार्यक्रमस्य सकुशल मञ्चसंचालनं अस्माकं संस्कृताध्ययनकेंद्रस्य कुशलप्रशिक्षक: शिवमत्रिपाठिवर्या: स्वदायित्वस्य सम्यक्तया निर्वहणं कृतवान् एवञ्च अन्ते कार्यक्रमस्य समापनं शान्ति मन्त्रै: द्वारा सुसम्पन्नम् अभवत् ..!
पठतु संस्कृतम् – वदतु संस्कृतम्