श्रीरामः विष्णोः सप्तमः अवतारः । “विष्णोरर्धं महाभागम्” इत्येव उल्लेखः दृश्यते । रावणः देवैः मरणम् न भविष्यति इति वरं प्राप्तवान् आसीत् । तस्य संहारार्थं महाविष्णुः एव मनुष्यरूपेण जन्म प्राप्नोत् । सः एव श्रीरामचन्द्रः । चैत्रमासस्य शुक्लपक्षस्य नवम्यां तिथौ श्रीरामस्य जन्म अभवत् । श्रीरामः हिन्दुजीवनस्य अविभाज्यम् अङ्गमेव । मनुष्येण प्राप्यमाणस्य अत्युन्नत-आदर्शस्य मूर्तिरूपः एव श्रीरामः । अतः एव श्रीरामः “मर्यादापुरुषोत्तमः” “विग्रहवान् धर्मः” इति उच्यते । श्रीरामः सर्वेषाम् आदर्शभूतः पुत्रः, मित्रं, पतिः, सहोदरः, राजा, शिष्यः, शत्रुः च । सः कदापि धर्मविरुद्धं न आचरितवान् । अतः धर्मरक्षणार्थं सर्वस्यापि त्यागं कृतवतः रामस्य विषये सर्वेषामपि महान् आदरः । जाति-मत-प्रान्तादि भावं विना रामः सर्वेषां हृदये निवसति । भारतस्य सर्वेषु भागेषु, सर्वासु भाषासु रामविषयकं साहित्यं, सङ्गीतं, शिल्पं, चित्रं, चापि अस्ति एव । राममन्दिररहितः कोपि ग्रामः न स्यात् अस्माकं देशे । जगति यं कमपि जीवनस्य आदर्शरूपेण प्रदर्शयितुं योग्यः अस्ति चेत् सः रामः एव । यतः सः धर्मपालनार्थं बहुविधानि कष्टानि सोढवान् । पितृवाक्यपालनार्थं १४ वर्षाणि यावत् वनवासं कृतवान् । सामान्यप्रजायाः कस्यचित् रजकस्य अभिप्रायमपि पुरस्कुर्वन् प्राणप्रियां साध्वीं पत्नीं वनं प्रेषितवान् । अद्यतनजगति एतादृशजीवनस्य कल्पनाम् अपि कर्तुं न शक्नुमः वयम् । रामः नारायणस्य अवतारः ।











