अयोध्यास्थ श्रीगोवर्द्धनसंस्कृतमहाविद्यालये एकादशान्तेवासीनामुपनयनसंस्कार: सम्पन्न:

संवादक: प्रवेशकुमारशुक्ल, अयोध्या

वैशाखकृष्णपञ्चमीशुक्रवासरे १८ मार्चमासे श्रीगोवर्द्धनसंस्कृतमहाविद्यालये महाविद्यालयस्य कुशलप्प्राचार्या: डा० जयप्रकाशमिश्रवर्णां संरक्षणे एकादशबालकानां षोडशसंस्कारेषु प्रधानतम: संस्कार: यज्ञोपवीतसंस्कार: अभवत्। प्राचार्यै: द्विजान्नुक्तं यत् अभिवादनशीलस्य नित्यं वृद्धोपसेविनः चत्वारि तस्य वर्धन्ते आयुर्विद्यायशोबलम्।
भारतीयधर्मपरम्परायां संस्काराणां महत्त्वं सर्वोपरि विद्यते एते संस्काराः मानवजीवनस्य विविधपर्वाणि चिन्हयन्ति। तेषु उपनयनसंस्कारः अतीव विशिष्टपवित्रश्च संस्कारः वर्तते एषः न केवलं सामाजिकः संस्कारः, अपि तु वेदाध्ययनस्यात्मविकासस्य च द्वारमुद्घाटयति। वेदेस्मृतिपुराणेषु चास्य संस्कारस्य विशदं वर्णनं दृश्यते।””उपनयनं द्वितीयं जन्म भवतीति
उपनयनसमये बालकः प्रथमवारं गायत्रीमन्त्रं शृणोति यः मन्त्रः वेदविद्यायाः मूलम्। अस्य मन्त्रस्य जपेन बालकः आत्मचिन्तनाय, मनःशुद्धये, चित्तैकाग्रताय च प्रवृत्तः भवति। मनुना उक्तं — “गायत्री मन्त्रस्य जपः ब्रह्मणः मूलं”
एषः संस्कारः न केवलं धार्मिकः, अपितु व्यष्टि-समष्टि-जीवनयोः संगठकः अस्ति। उपनयनात् पूर्वं बालकः सामान्यः पुत्रः भवति, उपनयनेन तु सः समाजस्य उत्तरदायी सदस्यः, धर्मपरायणः शिष्यः च भवति। एषः संस्कारः तं कर्तव्ये, संयमे, स्वाध्याये च निष्ठावानं करोति। श्रीरमेन्द्रमोहनमिश्र:, श्री शिवेंद्रमिश्र: महोदयो: निर्देशने अयं सामूहिकयज्ञापवीतसंस्कारकार्यक्रम: समपन्नमभवत्
अनंतमिश्र: निशांत: अमित: ,आदित्य:,राज तावारी ,आयुष:, आदर्श: , गोलू ,अमरनाथ: एतेषां बालकानां यज्ञोपवीत संस्कार: अभवत्।आकाश:,अनीत:,कुशल:,लक्षित:, विवेकप्प्रभृतय: छात्रा: समुपस्थिता: आसन्।
वन्देसंस्कृतमातरम्