राजकीय-शिक्षक-संघेन दुगड्डा-विकास-खण्डे कोटद्वारे शैक्षिक-उन्नयन-गोष्ठी आयोजिता।

समाजस्य आधारशिला गुरु: एव – “महापौरः शैलेन्द्ररावत:”

संजयरावत: मंत्री तोमर: अध्यक्ष: पुन: विजयी।

वार्ताहर:-कुलदीपमैन्दोला।

कोटद्वारम् । राजकीयः शिक्षक-संघः, दुगड्डा-विकास-खण्डस्य तत्त्वावधानस्य अन्तर्गतम् एकदिवसीया शैक्षिक-उन्नयन-गोष्ठी कोटद्वार-नगरस्थे सभागारे आयोजिता अभवत्। अस्मिन् कार्यक्रमे कोटद्वार-नगर-निगमस्य महापौरः श्री-शैलेन्द्र-सिंह-रावत: मुख्य-अतिथिरूपेण उपस्थितः आसीत्। गोष्ठ्याः अध्यक्षता शिक्षक-संघस्य जनपदाध्यक्षः बलराजः गुसाईं कृतवान्।
कार्यक्रमस्य आरम्भः राजकीया-बालिका-वरिष्ठमाध्यमिक- विद्यालय: कोटद्वारस्य बालिकाभिः दीपप्रज्वलनं सरस्वती-वन्दनया च सह अभवत्। ततः परम् अतिथीनां स्वागत-अलंकरणं सत्कारः च कृतः।
गोष्ठ्याम् मुख्यवक्ता श्री-कुलदीपमैन्दोला अद्यतन-शैक्षिक- परिवेशे गुरूणां दायित्वं, राष्ट्रीय-शिक्षा-नीतिः २०२० च तस्य प्रभावः, विद्यालय-स्तरे नवाचाराणां आवश्यकता च इत्येतेषु विषये विस्तरेण प्रकाशं कृतवान्। सः अवदत् – “शिक्षकै: विद्यार्थिनां बौद्धिक-नैतिक-सामाजिक-विकासे सकारात्मकं योगदानं दातव्यं। शिक्षायाः उन्नयने यदि संग्रामः स्यात्, उत्साहेन सह; यदि सङ्गः स्यात्, तर्हि सः साधुतया; यदि द्वन्द्वः स्यात्, तर्हि समासेन; यदि विच्छेदः स्यात्, तर्हि सन्धिना भवेत्।” सः अपि उक्तवान् – “शिक्षकः जीवनपर्यन्तं शिष्यं अग्रे नयति, किन्तु शासनं तं यथोचितं सम्मानं न ददाति। संघः एषां शैक्षिक-कर्तव्यानां संवर्द्धनाय कार्यं करोति।”
सहवक्तृरूपेण कविताशिक्षिकया अपि विद्यालय-गतिविधीनां, बाल-संसद:, प्रयोग-आधारित-शिक्षणस्य, सहशैक्षिक-कार्यक्रमाणां च महत्त्वे विशेषं बलं दत्तम्। सा अवदत् – “यत्र छात्रस्य प्रदर्शनं उत्तमम्, तत्र न प्रचारः जातः; यत्र तु छात्रः असफलः अभवत्, तत्र तस्य दोषः अधिकेन प्रकाशितः अभवत्।”
गोष्ठ्याम् विविध-विद्यालयेभ्यः आगतानां शिक्षकैः अपि स्वानुभवाः संयुक्तीकृताः, च विद्यालयेषु प्रवर्तमानाः नवाचार-योजनाः अपि चर्चिताः। शिक्षकैः, छात्रैः, विद्यालयैः च मिलित्वा समग्रं शैक्षिक-वातावरणं कथं निर्मातुं शक्यम् इत्यपि चर्चायाम् अभवत्। तया कथितं यत् अस्माभि: शिक्षकानां हतोत्साहनं न कर्तव्यं ।
मुख्य-अतिथि श्री-शैलेन्द्र-सिंह-रावतः स्वस्य भाषणे शिक्षकैः योगदानस्य प्रशंसा कृत्वा उक्तवान् – “समाजस्य नीवं गुरूणां हस्ते एव भवति।” तेन अपि उक्तम् – “कोटद्वार-नगर-निगमः भविष्ये अपि एवं शैक्षिक-कार्यक्रमान् प्रोत्साहयिष्यति।”
द्वितीयसत्रे निर्वाचनाधिकारी श्री-बृजेन्द्रसिंह-नेगिना, सहनिर्वाचनाधिकारिणा उमाकान्त-कुकरेतीद्वारा निर्देशनं कृत्वा संघस्य नूतन-कार्यकारिण्याः गठनाय मतदानं सम्पन्नम् कृतं। उपाध्यक्षपदे श्री-सञ्जय-शर्मा, अध्यक्षपदे श्री-विजेन्द्र-तोमर:, मन्त्रीपदे श्री-सञ्जयसिंह-रावत: इत्येते विजयिन: अभवन्। शेषपदाधिकारिण: निर्विरोधेन निर्वाचिताः अभवन् । कार्यक्रमस्य संचालनं जनपद-संयुक्त-मन्त्री श्री-आशीष-खर्कवालः अकुर्वत्। पूर्व-जनपद-मन्त्री श्री-मनमोहन-चौहानः नूतन-पदाधिकारिण: संघीय-सेवानां शपथवाचनं च कृत्वा प्रतिज्ञां दत्तवान्।