वस्तुत: योगस्य भाषा संस्कृतमेव – डॉ उदयनहेगडे

संवादक:- प्रवेशकुमारशुक्ल:, लखनऊ

उत्तरप्रदेशसंस्कृतसंस्थान– लखनऊ इत्यनेन ऑनलाइन संस्कृतभाषाप्रशिक्षणमेवं च ऑनलाइनसंस्कृतभाषा- शिक्षणपाठ्यक्रम- निर्माणयोजनायाः अन्तर्गतं योगस्य भाषा संस्कृतमिति विषयाधारित:- प्रेरणासत्रस्यायोजनं कृतम्। कार्यक्रमस्य शुभारम्भः संदीपशुक्लेन वैदिकमंगलाचरणेन कृतः ।
संस्थानगीतिका गंगोत्रीमहोदयया कृता अथ च स्वागतगीतम् गायत्री, भक्तियोगस्य वाचनं अद्विकेन कृतम्। अतिथिपरिचयपूर्वकं संस्थानवृत्तकथनं योजनासंयोजकेन दिव्यरंजन महोदयेन कृतम्। कार्यक्रमस्य मुख्यवक्तृत्वेन राष्ट्रियसंस्कृतविश्वविद्यालय: तिरुपतित: व्याकरणविभागस्य सहायकाचार्य: डॉ उदयनहेगडे महाभागाः आसन्। ते उक्तवन्तः यत् अधुना योगः संपूर्णे विश्वस्मिन् प्रचलितो वर्तते यस्य मूलस्रोतः संस्कृतमेवास्ति। यान्यपि वेदपुराणसाहित्यदर्शनादीनि सन्ति सर्वेषां मूलं संस्कृतमेव। एतान् सर्वान् विश्वस्य पुरतः प्रस्तोतुं संस्कृतभाषायाः महत्वपूर्णा भूमिका अस्ति। संस्कृतभाषा अस्माकं जीवनदर्शनस्य मूलाधारोऽस्ति। अतः संस्कृतभाषाम् अध्येतुम् अस्माभिः समैः सततं यतनीयम्। संस्कृतं भारतस्य आत्मा अस्ति। भारतम् अवगन्तुं संस्कृतज्ञानम् अनिवार्यम्। भारतस्य प्रतिष्ठा संस्कृतेनैव संरक्षिता भवितुमर्हति। अतः संस्कृतभाषायाः ज्ञानेन ब्रह्मतेजः, ज्ञानशक्तिः, बुद्धिश्च विकसिता भवति। उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः योजनाप्रभारी श्रीभगवानसिंहचौहान:, सुधिष्ठकुमारमिश्रः, समन्वयकः धीरजमैठाणी, दिव्यरञ्जनः, सुश्री राधाशर्मा इत्येते प्रभृतयः कार्यक्रमे उपस्थिताः आसन्। प्रेरणासत्रस्य संयोजनं प्रशिक्षकेण सत्यममिश्रेण कृतम्।आभाषिक सहयोगम् अमित सामवेदी दीपमाला च कृतवन्तौ।
कार्यक्रमस्य सञ्चालनं प्रशिक्षका आस्थाशुक्ला कृतवती। धन्यवादज्ञापनं प्रशिक्षिका दिव्या अथ च शान्तिमन्त्रं सूचना च प्रशिक्षक: ओमदत्त:कृतवान् । कार्यक्रमे धैर्यशील:,प्रिया, शशांक: , इत्यादयः प्रशिक्षवः समुपस्थिताः आसन्।