श्रीगुरुभ्रातृमण्डलेन आयोजिता दिव्यसम्मानसमारोहः।

कान्ताप्रसादबडोला पूर्वप्राचार्य:, राजेन्द्रकुमारगौनियाल: प्रधानाचार्य: च गुरुरूपेण सम्मानितौ च सर्वाधिकांकप्राप्तवन्तौ
कमलकिशोर: सुशान्तभट्ट: च छात्रौ गुरुपर्वणि अलंकृतौ ।

वार्ताहर:- कुलदीपः मैन्दोलाः उत्तराखण्डं

श्रीगुरुपूर्णिमापर्वणः शुभसन्दर्भे श्रीबालाजीमन्दिरे गुरुभ्रातृमण्डल-कोटद्वारेण ब्रह्मलीनगुरूणां श्रीसत्यप्रसादबहुगुणावर्यस्य मूर्तेः वेदोक्तपद्धत्याअनुसारं अभिषेक-पूजनं भक्तिपूर्वकं सम्पन्नम्। आचार्यश्रीः दिनेशप्रसाद-जुयालमहोदयः सान्निध्यं कृतवान्, पूजां पण्डितः हरीशः उनियालः पण्डितः वीरेंद्रकण्डवालः च सम्यक् निष्पादितवन्तौ। भजन-सङ्कीर्तनं पण्डितद्वयेन अनिल-घनसेलापवनसुन्द्रियालाभ्यां सुन्दररूपेण प्रस्तुतं, यत् सर्वेषां हृदयानि आह्लादितानि कृतवत्यः। गुरुभ्रातृमण्डलसमित्या संस्कृतसंस्कृतेः अभिवृद्धये आचार्यद्वयाय — पूर्वप्रधानाचार्याय बडोलामहोदयाय वर्तमानप्रधानाचार्याय डॉ. गौनियाल-महोदयाय — प्रशस्तिपत्रद्वयं समर्पितम्। परीक्षायां विशिष्टसिद्धिं प्राप्तवन्तौ छात्रौ — साहित्यशास्त्री कमल-किशोरः, व्याकरणाचार्यः सुशान्तभट्टः — अपि प्रशस्तिपत्रैः सम्मानितौ। अध्यक्षः श्रीराजदीप-माहेश्वरीमहोदयः उक्तवान् यत् “सर्वजनहिताय, सर्वजनसुखाय” इत्येतद्भावनया कार्यक्रमः उत्तमरीत्या सम्पन्नः। समापन-काले श्रीबालमोहनध्यानीः श्रीप्रशान्तबुधौड़ीमहोदयश्च गुरुपूर्णिमायाः महत्वं गुरोः जीवनं च उद्धृतवन्तौ। प्रसादवितरणं महाभण्डारः च आयोज्य, संचालनं श्रीमान् डॉ. रमाकान्तकुकरेतीमहोदयेन सम्यक् कृतम्।