प्रधानमन्त्री नरेन्द्रमोदी जुलाईमासस्य त्रयोविंशति दिनाङ्कात् (यूके) इति ब्रिटेन देशस्य मालदीवस्य च द्वयोः राष्ट्रयोः यात्रां करिष्यति। यात्रायाः प्रथमे चरणे प्रधानमन्त्री जुलाईमासस्य त्रयोविंशति दिनाङ्कात् चतुर्विशति दिनाङ्कपर्यन्तं ब्रिटेन-देशस्य समकक्षस्य कीर् स्टारमर इत्यस्य आमन्त्रणे ब्रिटेन-देशं गमिष्यति। अस्मिन् भ्रमणावधौ प्रधानमन्त्री मोदी भारत-ब्रिटेन-द्विपक्षीयसम्बन्धानां सम्पूर्णपरिधिविषये प्रधानमन्त्रिणा स्टारमर इत्यनेन सह विस्तृतविमर्श करिष्यति । क्षेत्रीयवैश्विकमहत्त्वयोः विषयेषु अपि विचारविनिमयं करिष्यति। श्रीमोदी महामहिम राज्ञा चार्ल्स-तृतीयेन सहापि मिलिष्यति इति अपेक्षास्ति । निज-यात्रायाः द्वितीये चरणे प्रधानमन्त्री मोदी अस्य मासस्य पञ्चविंशति दिनाङ्कात् मालदीवस्य राष्ट्रपतिः डॉ. मोहम्मद मुइज्जु इत्यस्य आमन्त्रणे द्विदिवसात्मके मालदीव-यात्रायां भविष्यति । सः मालदीवस्य स्वातन्त्र्यस्य षष्ठीवर्षस्योत्सवे’ मुख्यातिथिः भविष्यति। यात्रावधौ सः मालदीवस्य राष्ट्रपतिना सह मिलित्वा परस्पर हितानां विषयेषु चर्चा करिष्यति। एते भ्रमणौ भारतस्य सुदृढवैश्विकसंबन्धानां प्रवर्धनाय च पारस्परिकसहकार्यस्य सशक्तीकरणाय महत्त्वपूर्णौ भविष्यतः।











