उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

(वार्ताहर:- प्रवेशकुमारशुक्ल:, लखनऊ )

उत्तरप्रदेशसंस्कृतसंस्थानेन निदेशकविनयश्रीवास्तवस्य मार्गदर्शनेन संचालितायाः ऑनलाइनप्रशिक्षणपाठ्यक्रमनिर्माणयोजनायाः अन्तर्गतं सरलसंस्कृतभाषाशिक्षणकक्षयोः समापनसत्रस्य आरम्भः वैदिकमंगलाचरणेन जातः। वैदिक मङ्लाचरणम् आशिष:, सरस्वतीवन्दनां रागिनी च अकरोत् । संस्थानगीतिका सुजाता महोदया कृतवती ।सत्रस्य संचालनं प्रशिक्षिका आस्थाशुक्ला अकरोत् । स्वागतगीतं वैभवेन प्रस्तुतम् अनन्तरं संस्कृतगीतं अमित:, वैष्णवी, आर्ना, कश्मीरा, शिप्रा आद्विकश्च प्रस्तुतवन्त:। चन्द्रशेखरमहोदयः,पद्मिनी, संजीवकुमारश्च कक्षायाः अनुभवम् उक्तवन्त:। गीतापाठं प्रज्ञांशीउपाध्याय: कृतवती एवञ्च रुद्राष्टकं गंगोत्री महोदया गीतवती । तस्मात् परं ये छात्रा: स्वप्रस्तुतिं दत्तवन्त: तेषां एवञ्च उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः विनयश्रीवास्तवः, प्रशासनिकपदाधिकारी जगदानन्दझा, दिनेशमिश्रः, योजनाप्रमुखः भगवानसिंहमहोदय:, प्रशिक्षणप्रमुखः सुधिष्ठामिश्रमहोदय:, समन्वयका: धीरजमैठाणीमहोदय:, दिव्यरंजनमहोदय: राधाशर्मामहोदया इत्येतेषां महोदयानां कृते धन्यवादज्ञापनं प्रशिक्षिका दीपिकामिश्रा अकरोत्। कार्यक्रमे द्विचत्वारिंशत् छात्रा उपस्थिताः आसन्।
अन्ते शान्तिमन्त्रं करीनाआचार्या कृतवती ।एवं प्रकारेण शान्तिमन्त्रेण सूचनयाश्च सह कार्यक्रमस्य सफलतापूर्वकं समाप्तिः अभवत्।