केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे दीक्षारम्भेन सह संस्कृतसप्ताहमहोत्सवस्य समापनसमारोह:

वार्ताहर:-प्रवेशकुमारशुक्ल, भोपालम्

केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे संस्कृतसप्ताहमहोत्सवस्य तथा दीक्षारम्भकार्यक्रमस्य भव्यसमापनसमारोह: गरिमायुक्ते वातावरणे सम्पन्न:। एतदायोजनं नवीदेहलीस्थितकेन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलगुरोः प्रो॰ श्रीनिवासवरखेड़ी महोदयानां संरक्षणे आयोजितम् आसीत्।
समारोहे उपस्थिताः आसन्—मुख्यातिथेः आरोग्यभारतीसंघस्य राष्ट्रीयसंगठनसचिवः डॉ॰ अशोककुमारवार्ष्णेयः सारस्वतातिथेः नासिकपरिसरनिदेशकः प्रो॰ नीलाभतिवारि, विशिष्टातित्वेन परशुरामकल्याणबोर्ड मध्यप्रदेश शासनस्याध्यक्षः श्रीविष्णुराजौरिया; सम्मानितातिथेः सनातनकर्मकाणडाध्यात्मसमितेः भोपालस्य संचालकाध्यक्षाचार्यः डॉ॰ रामकुमारदेवलिया, कार्यक्रमस्माध्यक्षतां परिसरनिदेशकः प्रो॰ रमाकान्तपाण्डेयः आचरणम् अकुर्वन्।
आचार्यः डॉ॰ रामकुमारदेवलियेन उक्तम् — संस्कृतभाषायाः प्रचार–प्रसारे केन्द्रीयसंस्कृतविश्वविद्यालयस्य योगदानं अतिमहत्त्वपूर्णं अस्ति। अस्माकं सर्वेषां कर्तव्यं यत् वयं संस्कृतस्य संवर्धने अनवरतप्रयत्नं कुर्मः।
मुख्यातिथिः डॉ॰ अशोककुमारवार्ष्णेयः भाषितवन्तः — दीक्षारम्भः छात्राणां जीवने परिवर्तनस्य कारणं भवति। यथा अतीते शिक्षा श्रवणेन आगम्यते स्म, तथापि अद्य डिजिटलयुगेन सह वयं प्रचारार्थं नूतनपद्धतिं अपनयामः तदपि प्राचीनपरम्पराणि सम्यक् रक्षितव्यानि। संस्कृतभाषा वैज्ञानिकाश्च आधुनिकाश्च प्रमाणैः युक्ता अस्ति।
श्री विष्णुराजौरियेन संस्कृतस्य वैश्विकविशिष्टता विशेषेण निर्दर्शिता। प्रो॰ नीलाभ तिवारिणः अस्योत्थानार्थं शासनस्तरे दृढकदमान् गृहाणीयान् इति आवेदितम्। अध्यक्षीयं उद्बोधनं कुर्वन् प्रो॰ रमाकान्त् पाण्डेयः उक्तवान् — संस्कृतं देववाणी इत्युच्यते, भारतीयज्ञानपरम्परायाः रक्षणाय च अस्य अध्ययनस्य प्रसारः अनिवार्यः।
समारोहस्य अवसरे भोपालपरिसरे संस्कृतसेवायां उत्कृष्टपरिश्रमाय श्री विष्णु राजौरिया, श्रीमती राकेशशर्मा, श्रीओमप्रकाश, श्रीनरसिंहुलु, डॉ॰ एस् कृष्णा, डॉ॰ रागनीशर्मा तथा डॉ॰ रजनी इत्येभ्यः परिसरात् संस्कृतभूषणसम्मानैः सम्मानिताः।
संस्कृतभाषण-निबन्ध-गीतप्रतियोगितासु मोहिनी काछी, दीपक आर्य, गौरी भवानी, शुभम् मैथानीादयः छात्राः उत्कृष्ठपुरस्कारेण पुरस्कृताः।
समारोहे समस्तक्रियाणां प्रतिवेदनं डॉ॰ जी नरसिंहुलुनाऽवेदितम्। अतिथीनां वाचिकं स्वागतं प्रो॰ प्रदीपकुमारपाण्डेयेन कृतम्। कृतज्ञताज्ञानं डॉ॰ प्रतापेन व्यक्तम् तथा कार्यक्रमस्य संचालनं डॉ॰ जितेन्द्र् तिवारि कृतम्।
समन्वयकः प्रो॰ सोमनाथ् साहू आयोजकसमितेः सदस्यैः सह कार्यक्रमस्य सफलं समापनं सुनिश्चितवान्।