केन्द्रीयसंस्कृतविश्वविद्यालयेन भारतस्य प्रथमः भारतीय-ज्ञान-परम्परा-ओलम्पियाडः आरब्धः

राष्ट्रीयस्तरे भारतीयज्ञानपरंपरा (संस्कृत) ओलिंपियाडे द्वितीयस्थानं प्राप्तम् – आयुष् भामरे

केसीई संस्थायाः मूळजी जेठा महाविद्यालयस्य स्वामीविवेकानन्द कनिष्ठमहाविद्यालयस्य द्वादशवर्गीय विज्ञानविभागस्य छात्रः आयुष् भामरे भारतीयज्ञानपरंपरा ओलिंपियाडे–२०२५ मध्ये राष्ट्रीयस्तरे द्वितीयस्थानम् प्राप्य प्रतिभां प्रदर्शितवान्। द्वादशवर्गे आयुषेण शतशतम् अंकानि प्राप्तानि।
अयं स्पर्धा केंद्रीयसंस्कृतविद्यापीठेन प्रथमवारं राष्ट्रीयस्तरे आयोजिता, यत्र देशस्य विभिन्नभागात् सहस्राधिकाः छात्राः भागं गृह्णन्। कठीनप्रश्नपत्रिकाः, पारम्परिकज्ञानम्, वेदाः, उपनिषदः, शास्त्रज्ञानम्, भारतीयगणितं च सांस्कृतिकपरंपरा विषयेषु आयुषेण उत्कृष्ठानि अंकानि प्राप्तानि।
आयुषस्य मातुः पितुः च, सौ. पल्लवी भामरे तथा श्री महेन्द्र भामरे, पुत्रस्य राष्ट्रीयस्तरे सफलतायाः कारणेन हर्षितौ सन्ति। केसीई संस्थायाः अध्यक्षः प्रज्ञावन्त् नन्दकुमार बेण्डाळे, प्राचार्यः डा. सं. ना. भारंबे, उपप्राचार्यः प्रा. आर. बी. ठाकरे, पर्यवेक्षिका सौ. स्वाती बर्हाटे, समन्वयकः प्रा. उमेश् पाटील, संस्कृताध्यापकः प्रा. अर्जुन् मेटे शास्त्री च अन्य शिक्षकाः सह छात्राः च तं हार्दिकं अभिनन्दनं कृतवन्तः।
१५ अक्टूबर २०२५ तमे जयपूर नगरे केंद्रीयसंस्कृतविद्यापीठस्य स्थापना-दिनसमारोहे सर्वराष्ट्रियविजेतॄणां सम्मानः करणीयः। तस्मिन् कार्यक्रमे आयुषाय विशेषसन्मानचिन्हं, प्रमाणपत्रं च, पञ्चसहस्राणि रूप्यकाणि च प्रदातुं विद्यापीठेन सूचितम्।
जळगावस्थले एषा कार्यप्राप्तिः सर्वेभ्यः प्रेरणादायकः इति शिक्षावृत्तेषु गौरवः प्राप्यते। विविधक्षेत्रेभ्यः आयुषस्य यशस्य स्तुति निरन्तरं प्रवर्तते। नवदिल्ली – केन्द्रीयसंस्कृतविश्वविद्यालयेन अद्य भारतस्य प्रथमः “भारतीय-ज्ञान-परम्परा-ओलम्पियाडः” आरब्धः। एषा प्रतियोगिता वेद, उपनिषद्, गीता, रामायण इत्यादि विषयाधारितया आयोजिता अस्ति।अस्याः प्रतियोगितायाः मुख्योद्देशः विद्यार्थिनः भारतीय-संस्कृत्या, तस्याः प्राचीन-ज्ञान-परम्परया च सम्बद्धान् कर्तुम् अस्ति। विश्वविद्यालयस्य प्रतिपादनुसारं, एषा प्रतियोगिता न केवलं शास्त्रीय-ज्ञानस्य प्रसाराय, अपि तु युवजनानां चेतनायाः जागरणाय च सहायकाः भविष्यति।केन्द्रीयसंस्कृतविश्वविद्यालयेन उक्तं यत् भारतीय-ज्ञान-परम्परा केवलं इतिहासस्य विषयः नास्ति, किन्तु भारतीयजीवनस्य आत्मा एव अस्ति। अतः तस्य प्रचारः आधुनिक-पीढ्याः मध्ये आवश्यकः इति।