सत्यस्य फलम् (बाल कथा )

पुरा एकस्मिन् सुन्दरराज्ये वीरसेनः नाम राजा वसति स्म। सः न्यायप्रियः दयालुश्च आसीत्। तस्य राज्ये जनाः सुखेन जीवनं यापयन्ति स्म। ग्रामेषु कृषकाः परिश्रमं कुर्वन्ति स्म, बालकाः विद्यालयं गच्छन्ति स्म, सर्वत्र शान्तिः आसीत्।
तस्मिन् राज्ये रामदासः नाम एकः कृषकः अपि वसति स्म। सः अत्यन्तं परिश्रमी आसीत्। प्रतिदिनं प्रातःकाले उत्तिष्ठति स्म, क्षेत्रं गच्छति स्म, भूमिं कर्षति स्म, बीजानि वपति स्म। तस्य भार्या सीता अपि तस्य साहाय्यं करोति स्म। तयोः एकः पुत्रः आसीत्। तस्य नाम मोहनः। मोहनः बुद्धिमान् विनयी च आसीत्। सः प्रतिदिनं विद्यालयं गच्छति स्म तथा संस्कृतभाषां पठति स्म।
एकदा ग्रीष्मकालः आसीत्। सूर्यः तीव्रतया तपति स्म। भूमिः शुष्का अभवत्। वर्षा न अभवत्। अतः कृषकाः दुःखिताः अभवन्। रामदासः अपि चिन्तितः आसीत्। सः प्रतिदिनं आकाशं पश्यति स्म तथा प्रार्थनां करोति स्म— “हे देव! वर्षां कुरु।”
एकस्मिन् दिने रामदासः स्वक्षेत्रे कार्यं कुर्वन् आसीत्। अकस्मात् तस्य हलस्य अग्रभागः कस्यचित् कठोरवस्तुनः उपरि अगच्छत्। सः भूमिं खनितवान्। तत्र एकः सुवर्णपात्रः आसीत्। पात्रे बहूनि सुवर्णमुद्राणि आसन्। रामदासः विस्मितः अभवत्। सः अवदत्— “अहो! एतत् महान् धनम् अस्ति।”
तदा तस्य मनसि द्वे विचारौ आगतौ। प्रथमः विचारः आसीत्— “अहं एतत् धनं स्वगृहे स्थापयामि।” द्वितीयः विचारः आसीत्— “एतत् धनं राज्ञः भवेत्। मया तत् राज्ञे दातव्यम्।” रामदासः सत्यप्रियः आसीत्। अतः सः सुवर्णपात्रं गृहं न नीतवान्। सः तत्क्षणमेव राजमहलं गतवान्।
राजा वीरसेनः सभायां आसीत्। रामदासः राजानं प्रणम्य सर्वां कथां उक्तवान्। राजा तस्य सत्यवादितया अतीव प्रसन्नः अभवत्। सः अवदत्— “हे रामदास! त्वं सत्पुरुषः असि। अद्य अपि लोके सत्यनिष्ठाः जनाः सन्ति। एतत् धनं त्वमेव गृहाण।”
किन्तु रामदासः विनयेन अवदत्— “महाराज! एतत् धनं राज्यस्य अस्ति। अहं केवलं कृषकः अस्मि।” राजा पुनः अवदत्— “तव सत्यनिष्ठा एव महान् धनम्। अतः अर्धं धनं त्वं गृहाण, अर्धं धनं राज्यकोशे स्थाप्यते।”
रामदासः राज्ञः वचनं स्वीकृतवान्। सः प्राप्तेन धनेन नूतनं कूपं निर्मितवान्। तेन ग्रामस्य सर्वे जनाः जलं प्राप्तवन्तः। सः निर्धनबालकान् पुस्तकानि अपि अददात्। ग्रामवासिनः तं प्रशंसितवन्तः। मोहनः अपि पितुः आचरणं दृष्ट्वा सत्यस्य महत्त्वं ज्ञातवान्।
किञ्चित्कालानन्तरं वर्षा अपि अभवत्। क्षेत्रेषु हरितानि धान्यानि अभवन्। सर्वे कृषकाः आनन्दिताः अभवन्। राजा वीरसेनः रामदासं “सत्यरत्नम्” इति नाम्ना सम्मानितवान्।