“मेलोडी खाओ खुद जान जाओ ” इति प्रसिद्धं वाक्यं प्रायः त्रिंशद्वर्षपर्यन्तं भारतीयानां मनसि प्रतिध्वनितम् अभवत्। किन्तु अस्य वास्तविकः प्रभावः तदा ज्ञातः, यदा इटली-देशस्य प्रधानमन्त्री जिऑर्जिया मेलोनी त्येतयोः मध्ये एकः लघुक्षणः सामाजिकमाध्यमेषु अत्यन्तं चर्चितः अभवत्।
गतदिने रोम नगरे प्रधानमन्त्री नरेंद्र मोदी इत्यनेन प्रधानमन्त्री मेलोनी महोदयायै मेलोडी टॉफी इत्यस्य एकं पैकेट उपहाररूपेण प्रदत्तम्। केवलं कतिपयक्षणानां लघुवीडियो सामाजिकमाध्यमेषु प्रसारितः, ततः अनन्तरं आश्चर्यजनकरूपेण भारतस्य ऑनलाइन-त्वरित-वाणिज्यमञ्चेषु यथा ब्लिंकिट , जेप्टो , इंडियमार्ट च मेलोडी टॉफ़ी पूर्णतया विक्रयिता अभवत्।
विशेषः अयं यत् अस्य कृते कापि विज्ञापनयोजना नासीत्, न सामाजिकमाध्यम-प्रभावकः-प्रचारः, न च विपणनव्ययः। केवलं द्वयोः प्रधानमन्त्रिणोः हास्यपूर्णः संवादः एव पर्याप्तः अभवत्, येन दीर्घकालात् विस्मृतप्रायः एषः उत्पादः पुनः जनस्मृतौ प्रत्यागच्छत्।
अस्य घटनायाः महत्त्वं भारतीयविपण्यां अत्यन्तं रोचकं दृश्यते। Nostalgia अर्थात् पुरातनस्मृतिजन्यभावना भारतीयव्यापारक्षेत्रे अत्यन्तं शक्तिशालिनी सम्पत्तिः अस्ति। मेलोडी इत्यस्य उत्पादकसंस्थया किमपि नवीनं कार्यं न कृतम्। एषः उत्पादः पूर्वमेव जनानां स्मृतौ जीवति स्म। क्विक कॉमर्स सेवा केवलं तस्य इच्छायाः त्वरितपूरणस्य अवसरम् अददात्। “अहं एतत् स्मरामि” इत्यस्मात् “अहं इदानीमेव एतत् क्रेतुम् इच्छामि” इत्यस्य मध्ये यः कालविलम्बः आसीत्, सः अधुना नष्टः।
अनन्तरं एषा कथा अधिकं रोचकत्वम् अगच्छत्। अनेकाः खुद्रनिवेशकाः सामाजिकमाध्यमेषु एतत् दृश्यं दृष्ट्वा स्वेषु trading-apps उद्घाट्य “Parle” इति नाम अन्वेषितवन्तः। तेन Parle Industries इत्यस्य shares पञ्चप्रतिशतपर्यन्तं वर्धिताः। किन्तु वास्तविकता एषा यत् ‘मेलोडी’ इत्यस्य निर्माणं पार्ले इंडस्ट्रीज् न करोति। अस्य उत्पादस्य वास्तविकः निर्माता पार्ले प्रोडक्ट्स प्राइवेट लिमिटेड् अस्ति, या एकः निजी संस्था अस्ति तथा यस्य shares सार्वजनिकरूपेण उपलब्धाः न सन्ति।
अनेकैः जनैः केवलं नामसाम्यात् आर्थिकनिर्णयः कृतः। न काचित् अनुसन्धानप्रक्रिया, न वित्तीयविवरणानां परीक्षणम्। केवलं “Parle” इति नाम दृष्ट्वा निवेशः कृतः। एतत् दर्शयति यत् भावनात्मकस्मृतयः जनमानसे कियत् गाढप्रभावं कुर्वन्ति।
अस्य प्रसङ्गस्य अनन्तरं अन्ये अपि बहवः भारतीय-स्मृतिप्रसिद्धाः ब्राण्डाः जनानां चर्चायां पुनरागच्छन्। रसना , पानपसन्द , पॉपिन्स इत्यादयः उत्पादाः, ये दीर्घकालात् सामान्यचर्चायां न आसन्, अद्यापि जनानां बाल्यस्मृतिषु जीविताः सन्ति। यदि एतेषां विषये पुनः कश्चित् भावनात्मकः क्षणः आगच्छेत्, तर्हि जनाः अल्पसमये एव तान् पुनः क्रेतुम् इच्छेयुः।
वास्तविकतया ‘मेलोडी’ इत्यस्मिन् उत्पादे किमपि परिवर्तनं न जातम्। परिवर्तितं केवलं एतत् यत् अधुना जनाः स्वस्मृतिजन्यइच्छां त्वरितरूपेण पूरयितुं समर्थाः अभवन्। एषा घटना आधुनिकव्यापारे भावनात्मकसंबन्धस्य शक्तिं स्पष्टतया प्रदर्शयति।











