नवदिल्ली, जुलै १९। पर्यावरणसंरक्षकः सामाजिककार्यकर्ता च सोनम् वाङ्चुकः गतदिनेषु विंशतिदिनपर्यन्तं नवदिल्लीस्थे जन्तर-मन्तर-स्थले अनशनं कुर्वन् आसीत्। तस्य स्वास्थ्यस्य निरन्तरमवनतेः कारणात् दिल्ली-पुलिसेन न्यायालयस्य निर्देशानुसारं चिकित्सकानां परामर्शं स्वीकृत्य च सफदरजङ्ग-चिकित्सालये प्रविष्टः।
वाङ्चुकः NEET, CBSE, CUET, SSC इत्यादिषु प्रतियोगितापरीक्षासु कथित-प्रश्नपत्र-प्रसारणस्य (Paper Leak) निष्पक्षपरीक्षणस्य, परीक्षाव्यवस्थायाः सुधारस्य तथा केन्द्रीय-शिक्षामन्त्रिणः धर्मेन्द्रप्रधानस्य त्यागपत्रस्य च आग्रहेण अनशनम् आरब्धवान्।
शुक्रवासरे रात्रौ वाङ्चुकेन विडियो-सन्देशः प्रकाशितः। तस्मिन् सः अवदत् यत् तस्य शरीरभारः प्रायः विंशतिशतांशेन न्यूनः जातः। शरीरस्य मेदः क्षीणः, मांसपेशयः अपि दुर्बलाः जाताः। तथापि स्वस्य मनोबलं दृढम् अस्ति इति सः स्पष्टतया उक्तवान्।
स्वसन्देशे वाङ्चुकः जनान् जुलै-मासस्य विंशतितमे दिने आयोज्यमानस्य “चलो संसद्” इति पदयात्रायां सहभागित्वाय आह्वानम् अकरोत्। तेन उक्तं यत् यदि लघुविषयेष्वपि शासनं उत्तरदायित्वं वहति, तर्हि कोटिशः विद्यार्थिनां भविष्यसम्बद्धेषु शिक्षाव्यवस्थायाः दोषेषु अपि उत्तरदायित्वं निश्चितं भवितुमर्हति।
अस्य आन्दोलनस्य समर्थनं बहुभिः नागरिकसंस्थाभिः, छात्रैः, पालकैः, युवभिः तथा राजनैतिकनेतृभिः कृतम्। शिवसेना (यूबीटी) दलस्य प्रमुखः उद्धव ठाकरे अपि आन्दोलनस्य समर्थनं प्रकटयन् केन्द्रशासनस्य असंवेदनशीलतां निर्दिष्टवान्।
आन्दोलनस्य नेतृत्वं कुर्वती सीजेपी (Cockroach Janata Party) इति संस्था नीट्-प्रश्नपत्र-प्रसारणस्य निष्पक्षपरीक्षणम्, परीक्षाव्यवस्थायाः व्यापकसुधारम्, केन्द्रीयशिक्षामन्त्रिणः त्यागपत्रम्, प्रभावितविद्यार्थिभ्यः न्यायं च प्रार्थयति। संस्थायाः वक्तव्यं यत्, यावत् एतासां मागधीनां पूर्तिः न भविष्यति, तावत् आन्दोलनम् अविरतं भविष्यति।
उल्लेखनीयम् यत् एषः प्रदर्शनः जून-मासस्य विंशतितमे दिने दिल्ली-पुलिसस्य अनुमत्यनन्तरं आरब्धः। प्रारम्भे अभिजीत् दीपके स्वसमर्थकैः सह जन्तर-मन्तरम् आगत्य शान्तिपूर्वकं प्रदर्शनम् आरब्धवान्। छात्राः हस्तेषु घोषणापत्राणि धारयन्तः शिक्षाक्षेत्रे उत्तरदायित्वस्य मागधिं कृतवन्तः। सायङ्काले अनुमतिसमयः समाप्तः, तथापि आयोजकैः प्रदर्शनस्य निरन्तरता घोषिताऽभूत्।
आन्दोलनस्य नवमे दिने सोनम् वाङ्चुकः अपि जन्तर-मन्तरम् आगतः। अनशनारम्भात् पूर्वं सः अभिजीत् दीपकेन सह राजघाटम् गत्वा महात्मा-गान्धिनः श्रद्धाञ्जलिम् अर्पितवान्। ततः सः अनिश्चितकालीनम् अनशनम् आरब्धवान्। तस्य आगमनानन्तरं प्रदर्शनस्थले जनसमर्थनं उल्लेखनीयरूपेण वर्धितम्। हरियाणाराज्यस्य खाप-पञ्चायत् प्रतिनिधयः अपि आन्दोलनस्य समर्थनार्थम् उपस्थिताः।
अधुना वाङ्चुकः चिकित्सालये चिकित्सकानां निरीक्षणे अस्ति। तस्य स्वास्थ्यस्य स्थितिं चिकित्सकाः निरन्तरं परीक्षन्ते। आन्दोलनकारिणः तु स्वमागधीनां पूर्तेः पर्यन्तं आन्दोलनं निरन्तरं भविष्यतीति पुनः प्रतिज्ञां कृतवन्तः।











